________________
आगम
“आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [१/गाथा-],
(४०)
नियुक्ति: [८८६],
भाष्यं [१५१...]
प्रत
सूत्राक
व्याख्याता, मध्यमङ्गलार्थ तु तीर्थकरादिगुणाभिधायकः 'तिर्थकरें' इत्यादि गाथासमूहः, नमस्कारस्त्ववसानमङ्गलार्थ इति, एतच्चायुक्त, शास्त्रस्यापरिसमाप्तत्वादवसानत्वानुपपत्तेः, न चाऽऽदिमङ्गलत्वमप्यस्य युज्यते, तस्य कृतत्वात् , कृतकरणे चानवस्थाप्रसङ्गात् , अलं पा परबुद्धिमान्द्यप्रदशेनेन, नैष सतां न्यायः, सर्वथा गुरुवचनाद् यथाऽवधारित तत्त्वार्थमेव प्रतिपादयामः । सूत्रादिश्च नमस्कारः, अतस्तमेव प्राग् व्याख्याय सूत्रं व्याख्यास्यामः, स चोत्पत्त्याधनुयोगद्वारानुसारतो व्याख्येयः, तत्र नमस्कारनियुक्तिप्रस्ताविनीमिमामाह गाथां नियुक्तिकारः
उत्पत्ती (१) निक्खेवो (२) पयं (३) पयत्थो (४) परूवणा (५) वत्थु (६)। अखेच (७) पसिद्धि (८) कमो (९)पओयणफलं नमोकारो॥ ८८७॥ व्याख्या-उत्पादनम् उत्पत्तिः, प्रसूतिः उन्माद इत्यर्थः, सोऽस्य नमस्कारस्य नयानुसारतश्चिन्त्यः, तथा निक्षेपण निक्षेपो ग्यास इत्यर्थः, स चास्य कार्यः, पद्यतेऽनेनेति पदं तच्च नाभिकादि, तच्चास्य वाच्यं, तथा 'पदार्थः' पदस्यार्थः४ पदार्थः, स च वाच्या, तस्य च निर्देशः सदाद्यनुयोगद्वारविषयत्वात, प्रकर्षेण रूपणा-प्ररूपणा कार्येति, वसन्त्यस्मिन् गुणा इति वस्तु तदह वाच्यम्, आक्षेपणम् आक्षेपः आशङ्केत्यर्थः, सा च कार्या, प्रसिद्धिः तत्परिहाररूपा वाच्येति, क्रमः अहंदादिरभिधेयः, 'प्रयोजनं तद्विषयमेव, अथवा येन प्रयुक्तः प्रवर्तते तत्प्रयोजनम्-अपवर्गाख्यं, तथा 'फल' तच्च किया-18 |ऽनन्तरभावि स्वर्गादिकम्, अन्ये तु व्यत्ययेन प्रयोजनफलयोरर्थप्रतिपादयन्ति, नमस्कारः(९५०० ग्रन्थाग्रं ) खल्वेभिद्वारश्चिन्त्य इति गाथासमुदायार्थः ॥ ८८७ ॥ 'यथोद्देशं निर्देश' इति न्यायमानित्योत्पत्तिद्वारनिरूपणायाऽऽह नियुक्तिकार:
दीप
अनुक्रम
[१]
I
AMERatina
NMEnaryorg
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: अत्र नमस्कार नियुक्ति: प्रस्तुयते
~756~