________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
भाष्यं [-]
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [-1, मूलं [- /गाथा - ], निर्युक्तिः [३८], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०] मूलसूत्र - [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
आवश्यक॥ ३३ ॥
अन्तरे, अथवा 'अन्तरे' इति पाठान्तरमेव, एतदुक्तं भवति तैजसवाग्द्रव्याणामन्तर इत्यन्तराले अत्रे तदयोग्य मन्यॐ देव द्रव्यं 'लभते' पश्यति, कोऽसावित्यत आह- प्रस्थापकः' प्रस्थापको नाम अवधिज्ञानप्रारम्भकः किंविशिष्टं तदिति, अत आह— 'गुरुलध्वगुरुलघु' गुरु च लघु च गुरुलघु तथा न गुरुलघु अगुरुलघु, एतदुक्तं भवति - गुरुलघुपर्यायोपेतं गुरुलघु अगुरुलघुपर्यायोपेतं चागुरुलघु इति । तत्र यत्तैजसद्रव्यासन्नं तद्गुरुलघु, यत्पुनर्भाषाद्रव्यासन्नं तद्गुरुलघु, 'तदपि च' अवधिज्ञानं प्रच्यवमानं सत्पुनः तेनैव द्रव्येणोपलब्धेन सता निष्ठां याति, मैच्यवतीत्यर्थः । तत्र अपिशब्दात् यत्प्रतिपाति तत्रायें क्रमो न पुनरवधिज्ञानं प्रतिपात्येव भवतीत्यर्थः चशब्दस्त्येवकारार्थः, स चावधारणे, तस्य चैवं प्रयोगः- तदेवावधिज्ञानमेवं प्रच्यवते, न शेपज्ञानानीति गाथार्थः ॥ ३८ ॥ आह-कियत्प्रदेशं तद् द्रव्यं यत् तैजस| भाषा द्रव्याणामपान्तरालवर्त्ति जघन्यावधिप्रमेयमित्याशङ्कय तद्धि परमाण्वादिक्रमोपचयाद् औदारिकादिवर्गणानुक्रमतः प्रतिपाद्यमिति, अतस्तत्स्वरूपाभिधित्सया गाथाद्वयमाह-
ओरालविउच्चाहारतेअभासाणपाणमणकम्मे । अह दव्ववग्गणाणं, कमो विवज्जासओ खित्ते ॥ ३९ ॥ कम्मोवरिं धुवेयर सुण्णेयरवग्गणा अणंताओ । चउधुवणंतरतणुवग्गणा य मीसो तहाऽचित्तो ॥ ४० ॥ प्रथमगाथा व्याख्या - आह-औदारिकादिशरीरप्रायोग्यद्रव्यवर्गणाः किमर्थं प्ररूप्यन्ते इति, उच्यते, विनेयानामव्यामोहार्थे,
१] मध्यार्थोऽवान्तरः २ मध्यभागे तैजसभाषयोः ३ तजसभाषयोः ४ समुच्चयाय ५ हीयमानम्. ६ अवधिः ७ वैज्ञसभाषाऽयोग्यद्रव्यान्तदर्शनानन्तरमच्युतिरूपेण ८ मत्यादीनि प्रध्यवत इत्यर्थः २५ + ०णुपाण०
Educatan Internationa
For Parts Only
~69~
Before यवृत्तिः विभागः
॥ ३३ ॥
war