________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [७९०], भाष्यं [१४९]
(४०)
*%
प्रत
सूत्राक
A
रूपणं प्रस्तुतमेव, सामायिकस्याङ्गभूतत्वात् , सामायिकस्वात्मवदित्यलं विस्तरेण, इति गाथार्थः । तत्र यदुक्तम् 'आत्मा 18 खलु सामायिक' मिति, तत्र यथाभूतोऽसौ सामायिक तथाभूतमभिधित्सुराह मूलभाष्यकार:
सावजजोगविरओ तिगुत्तो छसु संजओ । उवउत्तो जयमाणो आया सामाइयं होई ॥१४९॥ (म.भा) व्याख्या सावद्ययोगविरतः अवद्यं मिथ्यात्वकषायनोकवायलक्षणं सहावयेन सावद्यो योगस्तद्विरत:-तद्विनिवृत्तः, त्रिभिः-मनोवाकायैर्गुप्तः षट्सु-जीवनिकायेषु संयतः-प्रयत्नवान, तथाऽवश्यकर्तव्येषु योगेषु सदोपयुक्तः, यतमानश्च तेष्वेवासेवनया, इत्थम्भूत एवात्मा सामायिकं भवतीति गाथार्थः ।। साम्प्रतं यदुक्तम् 'तं खलु पञ्चक्खाणं आवाए सबदवाण' ति, तत्र साक्षान्महाव्रतरूपं चारित्रसामायिकमधिकृत्य सर्वद्रव्यविषयतामस्योपदर्शयन्नाहपढमंमि सबजीवा विइए चरिमेय सब्वब्वाइं । सेसा महव्वया खलु तदेकदेसेण व्वाणं ॥७११ ॥ | व्याख्या-'प्रथम' प्राणातिपातनिवृत्तिरूपे व्रते विषयद्वारेण चिन्त्यमाने 'सर्वजीवा' सस्थावरसूक्ष्मेतरभेदा विषयखेन द्रष्टव्याः , तदनुपालनरूपत्वात् तस्येति, तथा 'द्वितीये' मृवावादनिवृत्तिरूपे 'चरिमे च' परिग्रहनिवृत्तिरूपे सर्वद्रव्याणि विषयत्वेन द्रष्टव्यानि, कथम् ?, नास्ति पञ्चास्तिकायात्मको लोक इति मृपावादस्य सर्वद्रव्यविषयत्वात् , तन्नि|वृत्तिरूपत्वाच्च द्वितीयव्रतस्य, तथा मूर्छाद्वारेण परिग्रहस्यापि सर्वद्रव्यविषयत्वाच्चरमवतस्य च तन्निवृत्तिरूपत्वादशेपरव्यविषयतेति पूर्वार्द्धभावना । 'सेसा महबया खलु तदेकदेसेण दवाणं' ति शेषाणि महान तानि, खस्वित्यवधारणार्थः, तस्य च व्यवहितः सम्बन्धः, तेषामेकदेशस्तदेकदेशस्तेन तदेकदेशेनैव हेतुभूतेन द्रव्याणां, भवन्तीति क्रियाध्याहारः,
दीप
अनुक्रम
CKS
JanEa
me
Panatarary.om
मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: | सामायिक-स्वरुप संबंधे वक्तव्यता
~656~