________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [ ], मूलं [- / गाथा-], निर्युक्ति: [६९७],
भाष्यं [ १२२]
॥२६७॥
आवश्यक- ४ पूर्वनिषिद्धेन सता भवतेदं न कार्यमिति, उत्पन्ने च प्रयोजने कर्त्तुकामेन 'होति पडिपुच्छ' त्ति प्रतिपृच्छा कर्त्तव्या भवति, * पाठान्तरं या - 'पुवनिउत्तेण होइ पष्ठिपुच्छा' पूर्वनियुक्तेन सता यथा भवतेदं कार्यमिति तत्कर्तुकामेन गुरोः प्रतिपृच्छा कर्त्तव्या भवति अहं तत्करोमीति, तत्र हि कदाचिदसौ कार्यान्तरमादिशति समाप्तं वा तेन प्रयोजनमिति । द्वारं ७ । तथा पूर्वगृहीतेनाशनादिना छन्दना शेपसाधुभ्यः कर्त्तव्या - इदं मयाऽशनाद्यानीतं यदि कस्यचिदुपयुज्यते ततोऽसाविच्छाकारेण ग्रहणं करोत्विति । द्वारं ८ । तथा निमन्त्रणा भवत्यगृहीतेनाशनादिना अहं भवतोऽशनाद्यानयामीति गाथार्थः द्वारं ९ ॥ इदानीमुपसम्पद्वारावयवार्थः प्रतिपाद्यते सा चोपसम्पद् द्विधा भवति गृहस्थोपसम्पत्साधूपसम्पश्च्च, तत्रास्तां तावद् गृहस्थोपसम्पत्, साधूपसम्पत्प्रतिपाद्यते सा च त्रिविधा - ज्ञानादिभेदाद्, आह च-
उवसंपया यतिविहा णाणे तह दंसणे चरिते य । दंसणणाणे तिविहा दुविहा य चरितअट्ठाए । ६९८ ।। व्याख्या - उपसम्पश्च त्रिविधा 'ज्ञाने' ज्ञानविषया तथा दर्शनविषया चारित्रविषया च तत्र दर्शनज्ञानयोः सम्बन्धिनी त्रिविधा द्विविधा च चारित्रार्थायेति गाथार्थः ॥ तत्र यदुक्तं- 'दर्शनज्ञान योस्त्रिविधे'ति तत्प्रतिपादयन्नाह
Jus Educat
वा संघाचेव, गहणं सुतत्थतदुभए । वैयावने खमणे, काले आवकहाइ य ।। ६९९ ।। व्याख्या - वर्त्तनासन्धना चैव ग्रहणमित्येतत्त्रितयं 'सुत्तत्थतदुभए'ति सूत्रार्थभियविषयमवगन्तव्यमिति, एतदर्थ - मुपसम्पद्यते, तत्र वर्त्तना प्राग्गृहीतस्यैवास्थिरस्य सूत्रादेर्गुणनमिति, सन्धना तु तस्यैव प्रदेशान्तरविस्मृतस्य मेलनं घटना योजना इत्यर्थः, ग्रहणं पुनः तस्यैव तत्प्रथमतया आदानमिति, एतत्त्रितयं सूत्रार्थोभयविषयं द्रष्टव्यम्, एवं ज्ञाने नव
For Fans at Use Only
हारिभद्रीयवृत्तिः विभागः १
~ 537 ~
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
॥२६७॥
jaibrary org