________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
Education in
छ
%%%%
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [ ६८४ ], भाष्यं [ ११९...]
भेदयुक्तेन 'प्रतिक्रान्तो' निवृत्तो यस्तस्माद्दुष्कृतकारणात् तस्यैव खलुशब्दोऽवधारणे, 'दुष्कृतं' प्रागुक्तं दुष्कृतफलदातृत्वमधिकृत्य 'मिथ्ये 'ति मिथ्या भवतीति क्रियाध्याहारः अथवा व्यवहितयोगात्तस्यैव मिथ्यादुष्कृतं भवति नान्यस्येति गाथार्थः ॥ साम्प्रतं यस्य मिथ्यादुष्कृतं दत्तमपि न सम्यग् भवति तत्प्रतिपादनायाह
तिमिच्छतं व निसेवर पुणो पावं । पञ्चक्खमुसाबाई मायानियडीपसंगो य ॥ ६८५ ॥ व्याख्या- 'यत्' पापं किञ्चिदनुष्ठानं दुष्कृतमिति विज्ञाय 'मिच्छत्ति मिथ्यादुष्कृतं दत्तमित्यर्थः, यस्तदेव निषेवते पुनः पापं स हि प्रत्यक्षमृषावादी वर्त्तते, कथम् ? - दुष्कृतमेतदित्यभिधाय पुनरासेवनात् तथा मायानिकृतिप्रसङ्गञ्च तस्य स हि दुष्टान्तरात्मा निश्चयतश्चेतसाऽनिवृत्त एव गुर्वादिरञ्जनार्थं मिथ्यादुष्कृतं प्रयच्छति, कुतः १, पुनरासेवनात्, तत्र मायैव निकृतिर्मायानिकृतिस्तस्याः प्रसङ्ग इति गाथार्थः ॥ कः पुनरस्य मिथ्यादुष्कृतपदस्यार्थ इत्याशङ्कयाह
| मित्ति मिउमद्दवत्ते छत्ति य दोसाण छायणे होइ । मित्तिय मेराऍ ठिओ दुत्ति दुर्गुछामि अप्पाणं ॥ ६८६ ।। व्याख्या – 'मी' त्येवं वर्णः मृदुमार्दवत्वे वर्त्तते, तत्र मृदुत्वं- कायनाता मार्दवत्वं भावनम्रतेति, 'छे'ति च दोषस्यअसंयमयोगलक्षणस्य छादने - स्थगने भवति, 'मी'ति चायं वर्णः मर्यादायां- चारित्ररूपायां स्थितोऽहमित्यस्यार्थस्याभिधायकः 'दु' इत्ययं वर्णः जुगुप्सामि-निन्दामि दुष्कृतकर्मकारिणमात्मानमित्यस्मिन्नर्थे वर्त्तत इति गाथार्थः ॥ कत्ति कर्ड मे पाव इत्ति य डेवेमि तं उचसमेणं । एसो मिच्छा उक्कडपयक्खरत्यो समासेणं ॥ ६८७ ॥ दारं ॥ व्याख्या- 'क' इत्ययं वर्णः कृतं मया पापमित्येवमभ्युपगमार्थे वर्त्तते, 'ड' इति च 'डेवेमि तं'ति लक्ष्यामि - अतिक्र
For Prints at Use Only
www.jancibrary.or
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४० ], मूलसूत्र [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~530~