________________
आगम
“आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६०८], भाष्यं [११९...]
(४०)
प्रत
सूत्राक
प्रमाणगोचरातिकान्तश्च देहातिरिक्त आत्मेति, तत्र वेदपदानां चार्थ न जानासि, चशब्दाधुति हृदयं च, तेषामयमर्थः-तत्र |'विज्ञानघनेत्यादीनां प्रथमगणधरवक्तव्यतायां व्याख्यातत्वात् न प्रदश्यते, 'सत्येन लभ्य इत्यादीनां तु सुगमत्वादिति । न च तत्रैव उपलब्ध्या हेतुभूतया चेतनायाः शरीरधर्मताऽनुमातुं युज्यते, तद्धर्मतया तत्रोपलम्भासिद्धेः, न च तस्मिन् सत्येव उपलम्भः तद्धर्मत्वानुमानाय अलं, व्यभिचारदर्शनादू, यतः स्पर्शे सत्येव रूपादयः उपलभ्यन्ते, न च तद्धर्मता। तेषामिति, तस्मात् शरीरातिरिक्तात्माख्यपदार्थधर्मश्चेतना इति, देशप्रत्यक्षश्चायम् , अवग्रहादीनां स्वसंवेद्यत्वात् , भावना प्रथमगणधरवत् अवसेया, अनुमानगम्योऽपि, तच्चेदम्-देहेन्द्रियातिरिक्त आत्मा, तद्विगमेऽपि तदुपलब्धार्थानुस्मरणात्, पश्चवातायनोपलब्धाोंनुस्मतृदेवदत्तवत्, आगमगम्यता तु अस्य प्रसिद्धा एव 'सत्येन लभ्य' इत्यादिवेदपदप्रामाण्याभ्युपगमादिति, अलं विस्तरेण, गमनिकामात्रमेतत् । |छिपकमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पब्वइओ पंचहि सह खंडियसएहिं ॥६०९॥
व्याख्या--पूर्ववत् ॥ तृतीयो गणधरः समाप्त इति । अस्य च प्रथमगणधरादिदं नानात्वं-तस्य जीवसत्तायां संशयः, अस्य तु शरीरातिरिके खल्वात्मनि, न तु तस्य सत्तायामिति ॥
ते पब्वइए सोउं वियत्तो आगच्छई जिणसगासं। वच्चामि ण चंदामी पंदित्ता पज्जुवासामि ।। ६१०॥ व्याख्या-तान् प्रत्रजितान् श्रुत्वा इन्द्रभूतिप्रमुखान् व्यक्तो नाम गणधरः आगच्छति जिनसका, किंविशि-IC टेनाध्यवसायेन इत्याह-व्रजामि, णमिति वाक्यालङ्कारे, वन्दामि भगवन्तं जिनं, तथा वन्दित्वा पर्युपासयामि इति
दीप
अनुक्रम
T
49-4
Swlanniorary.org
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 494 ~