________________
आगम
“आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [- /गाथा-], नियुक्ति: [६०३], भाष्यं [११९...]
(४०)
+5
%22%
प्रत
%
सूत्राक
आभट्ठो य जिणेण जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ।। ६०३ ॥ व्याख्या-पूर्ववत्, नामगोत्राभ्यां संलप्तश्चिन्तयामास-नामापि मे वेत्ति, अथवा प्रसिद्धोऽहं, को मां न वेत्ति ।, यदि मे हृद्गतं संशयं ज्ञास्यति अपनेष्यति वा, तदा सर्वज्ञाशङ्का स्यात् इति ॥ अत्रान्तरे भगवताऽभिहित:कि मण्णि अस्थि कम्मं उदाहु णस्थित्ति संसओ तुज्झ । वेयपयाणय अत्यं ण जाणसी तेसिमोअत्थो ॥६०४॥ | व्याख्या-किं मन्यसे अस्ति कर्म उत नास्तीति !, नन्वयमनुचितस्ते संशयः, अयं च संशयस्तव विरुद्धवेदपदनिवन्धनो वर्त्तते. वेदपदानां चार्थ न जानासि, यथा च न जानासि तथा वक्ष्यामः, तेषामयमों-वक्ष्यमाणलक्षण इत्यक्षरार्थः तानि च अमूनि वेदपदानि-“पुरुष एवेदं ग्निं सर्वं यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति यदेजति यत्नजति यद् दूरे यदु अन्तिके यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यत" इत्यादि, तथा 'पुण्यः पुण्येन' इत्यादि, तेषां चायमर्थः ते मता विपरिवर्तते-पुरुष:-आत्मा, एवशब्दोऽवधारणे, स च कर्मप्रधानादिव्यवच्छेदार्थः, 'इद' सर्व प्रत्यक्षवर्तमान चेतनाचेतन, ग्निमिति वाक्यालङ्कारे, 'यद् भूत' यद् अतीतं यच्च 'भाव्यं भविष्य, मुक्तिसंसारावपि स एव इत्यर्थः, 'उतामृतत्वस्येशान' इति, उतशब्दोऽप्यर्थे, अपिशब्दश्च समुच्चये, 'अमृतत्वस्य' अमरणभावस्य-मोक्षस्य ईशानः-प्रभुश्चत्यर्थः 'यत्' इति यच्चेति चशब्दलोपात्, 'अनेन' आहारेण 'अतिरोहति' अतिशयेन वृद्धिमुपैति, 'यद् एजति' यत् चलति-पश्वादि, 'यत् न एजति' यन्न चलति-पर्वतादि, 'यहूरे' मेर्वादि, 'यद् उ अन्तिके उशब्दोऽवधारणे, 'अन्तिके समीपे यत्, तत्पुरुष एव इत्यर्थः, 'यदू अन्तर' मध्ये 'अस्य' चेतनाचेतनस्य सर्वस्य, यदेव सर्वस्यास्य बाह्यतः, तत्सर्वं
दीप
4X750-%+%25%
अनुक्रम
T
JABERatinintamational
rajaniorary.org
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 490~