________________
आगम
“आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६००], भाष्यं [११९...]
(४०)
आवश्यक-
हारिभद्रीयवृत्तिः विभाग: १
॥२४२॥
प्रत
S
सुत्राक
ARSALARANG
एव 'अनु विनश्यति' अनु-पश्चाद्विनश्यति विज्ञानघनः, 'न प्रेत्य संज्ञाऽस्ति' प्रेत्य मृत्वा न पुनर्जन्म न परलोकसभाऽस्ति इति भावार्थः। ततश्च कुतो जीवः ?, युक्त्युपपन्नश्च अयमर्थः, (इति) ते मतिः-यतः प्रत्यक्षेणासौ न परिगृह्यते, यतः 'सत्संप्र- योगे पुरुषस्य इन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्ष' न चास्य इन्द्रियसम्पयोगोऽस्ति, नाप्ययमनुमानगोचरः, यतः-प्रत्यक्षपुरस्सरं पूर्वोपलब्धलिङ्गालिङ्गिासम्बन्धस्मृतिमुखेन तत्प्रवर्तते, गृहीताविनाभावस्य धूमादनलज्ञानवत्, न च इह तलिङ्गाविनाभावग्रहः, तस्याप्रत्यक्षत्वात् , नापि सामान्यतोदृष्टादनुमानात् सूर्येन्दुगतिपरिच्छेदवत् तदवगमो युज्यते, दृष्टान्तेऽपि तस्याध्यक्षतोग्रहणात्, न चागमगम्योऽपि, आगमस्यानुमानादभिन्नत्वात् , तथा च-घटे घटशब्दप्रयोगोपलब्धावुत्तरत्र घटध्वनिश्रवणात् (ग्रन्था०६०००) अन्वयव्यतिरेकमुखेन घट एवानुमितिरुपजायते, न च इत्थमारमशब्दः शरीरादन्यत्र प्रयुज्यमानो इष्टो यमात्मशब्दात् प्रतिपद्येमहि इति, किं च-आगमानामेकज्ञेयेऽपि परस्परविरोधेन प्रवृत्तेरप्रमाणत्वात् , तथा च-'एतावानेव पुरुषो, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्ति बहुश्रुताः॥१॥ इत्यागमः, तथा 'न रूपं भिक्षवः पुद्गल' इत्याचपर।, पुद्गले रूपं निषिध्यते, अमूर्त आत्मा इत्यर्थः, तथा 'अकर्ता निर्गुणो भोक्ता इत्यादिश्चान्यः, तथा 'सवै अयमात्मा ज्ञानमय' इत्याद्यपर इति, एते च सर्व एव प्रमाणं न भवन्ति, परस्परविरोधेन एकार्थाभिधायकत्वात. पाटलिपुत्रस्वरूपाभिधायकपरस्परविरुद्धवाक्यपुरुषवातवत् , अतो न विद्या-किमस्ति नास्ति 1, इत्ययं ते अभिप्रायः, तत्र वेदपदानां चार्थ न जानासि, चशब्दात् युति हृदयं च, तेषामेकवाक्यतायामयमर्थ:-विज्ञानधन एवेति
दीप
अनुक्रम
॥२४॥
JABERDAMOH
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 487~