________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
भाष्यं [-]
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [-1, मूलं [- /गाथा ], निर्युक्तिः [१५], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०] मूलसूत्र - [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
ततोऽतिरिक्ता अवगन्तव्या यथेह परमाणोरेकप्रदेशं क्षेत्रं सप्तप्रदेशा च स्पैर्शनेति । तथा 'कालद्वारं', तत्रोपयोगमङ्गीकृत्य एकस्यानेकेषां चान्तर्मुहूर्त्तमात्र एव कालो भवति जघन्यत उत्कृष्टतश्च तथा तलब्धिमङ्गीकृत्य एकस्य जघन्येनान्तर्मुहूर्त्त मेव, उत्कृष्टतस्तु षट्षष्टिसागरोपमाण्यधिकानीति, वारद्वयं विजयादिषु गतस्य अच्युते वा वारत्रयमिति, नरभवकालाभ्यधिक इति, तत ऊर्ध्वमप्रच्युतेनापवर्गप्राप्तिरेव भवतीति भावार्थ:, नानाजीवापेक्षया तु सर्वकाल एवेति, न यस्मादाभिनिवोधिकलब्धिमच्छून्यो लोक इति । इदानीं 'अन्तरद्वार', तत्रैकजीवमङ्गीकृत्य आभिनिवोधिकस्यान्तरं जघन्येनान्तर्मुहूर्त्त, कथम् ?, इह कस्यचित् सम्यक्त्वं प्रतिपन्नस्य पुनस्तत्परित्यागे सति पुनस्तदावरणकर्मक्षयोपशमाद् अन्तर्मुहूर्त्त मात्रेणैव प्रतिपद्यमानस्येति, उत्कृष्टतस्तु आशातनाप्रचुरस्य परित्यागे सति अपार्धपुद्गलपरावर्त्त इति, उक्तं च- “तित्थगरपवयणसुर्य, आयरियं गणहरं महिहीयं । आसर्दितो बहुसो, अनंतसंसारिओ होई ॥१॥” तथा नानाजीवानपेक्ष्य अन्तराऽ| भाव इति । 'भाग इति द्वारं' तत्र मतिज्ञानिनः शेषज्ञानिनामज्ञानिनां चानन्तभागे वर्त्तन्ते इति । 'भावद्वारं इदानीं तत्र | मतिज्ञानिनः क्षायोपशमिके भावे वर्त्तन्ते मत्यादिज्ञानचतुष्टयस्य क्षायोपशमिकत्वात् । तथा 'अल्पबहुत्वद्वारं', तत्राभिनिबोधिकज्ञानिनां प्रतिपद्यमानपूर्वप्रतिपन्नापेक्षया अल्पबहुत्वविभागोऽयमिति तत्र सद्भावे सति सर्वस्तोकाः प्रतिपद्यमा
१ अधिकेति २ चारो दिसका द्वावृध्वधोदिको एकश्रावगाहस्थानमिति सप्तप्रदेशा स्पर्शना. ३ 'अनेकाभिनियोधिक जीवानामपीदमेवोपयोगकामानं केवलमिदन्तर्मुहूर्त्तमपि वृहत्तरमवसेयं' इति विशेषावश्यकौ ४ तीर्थंकरं प्रवचनं श्रुतं आचार्य गणधरं महर्दिकम् (आमशौषध्यादिलब्धिमन्तं ) । आशातयन् बहुशः अनन्तसंसारिको भवति ॥ १ ॥ ५ भागद्वारात्पार्थक्यज्ञापनाय धारा० १-२-३-४-६ + आसादेतो. २४.
Eucation Internationa
For Parts On
~46~
ayor