________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययनं [-], मूलं [− / गाथा-], निर्युक्ति: [ ३६१], भाष्यं [३७...],
भणन्ति यद्ययं श्रेष्ठो भवता किं नाङ्गीकृत इति विचारणे तस्य परि-समन्तात् कथना विरता इत्यादिलक्षणा, पृच्छतीति त्रिकालगोचरसूत्रप्रदर्शनार्थत्वादेवं निर्देशः, पाठान्तरं वा 'अह तं पागडरूवं दट्टु पुच्छि बहुजणो धम्मं । कहतींसु जतीणं सो वियालणे तस्स परिकहणा ॥ १ ॥' प्रवर्त्तत इति गाथार्थः ॥ ३६० ॥
लक्षणं ततोऽस परिकथना 'श्रम
'धम्मकहाअक्खित्ते उबट्टिए देइ भगवओ सीसे । गामनगराइआई बिहरइ सो सामिणा सद्धिं ॥ ३६१ ॥
गमनिका - धर्मकथाक्षितान् उपस्थितान् ददाति भगवतः शिष्यान्, ग्रामनगरादीन् विहरति स स्वामिना सार्धं, भावार्थ: सुगमः, इत्थं निर्देशप्रयोजनं पूर्ववत्, ग्रन्थकारवचनत्वाद्वाऽदोष इति गाथार्थः ॥ ३६१ ॥ अन्यदा भगवान् विरमाणोऽष्टापदमनुप्राप्तवान्, तत्र च समवसृतः भरतोऽपि भ्रातृप्रव्रज्याकर्णनात् संजातमनस्तापोऽधृतिं चक्रे, कदाचिद्भोगान् दीयमानान् पुनरपि गृह्णन्तीत्यालोच्य भगवत्समीपं चागम्य निमन्त्रयंश्च तान् भोगेः निराकृतश्च चिन्तयामास| एतेषामेवेदानीं परित्यक्तसङ्गानां आहारदानेनापि तावद्धर्मानुष्ठानं करोमीति पञ्चभिः शकटशतैर्विचित्रमाहारमानाय्योपनिमन्त्र्य आधाकर्माहृतं च न कल्पते यतीनामिति प्रतिषिद्धः अकृताकारितेनान्नेन निमन्त्रितवान्, राजपिण्डोऽप्यकल्पनीय इति प्रतिषिद्धः सर्वप्रकारैरहं भगवता परित्यक्त इति सुतरामुन्माथितो बभूव, तमुन्माथितं विज्ञाय देवराट् तच्छोकोपशान्तये भगवन्तमवग्रहं पप्रच्छ कतिविधोऽवग्रह इति, भगवानाह - पञ्चविधोऽवग्रहः, तद्यथा- देवेन्द्रावग्रहः राजा
* प्रतिषिद्धे.
Education intemational
For Funny
ww
मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र [४०], मूलसूत्र [०१] " आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~ 314~