________________
आगम
(४०)
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [५], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
प्रत
सूत्राक
देशादागतं गन्धादिकं गृह्णन्ति, उत्कृष्टतस्तु नवभ्यो योजनेभ्य इति । आत्माङ्गुलनिष्पन्नं चेह योजनं ग्राह्यमिति । आह-उक्तप्रमाणं विषयमुलाच कस्माचक्षुरादीनि रूपादिकमर्थं न गृह्णन्तीति, उच्यते, सामर्थ्याभावात, द्वादशभ्यो नवभ्यश्च योज-12 नेभ्यः परतः समागतानां शब्दादिद्रव्याणां तथाविधपरिणामाभावाञ्च, मनसस्तु न क्षेत्रतो विषयपरिमाणमस्ति, पुद्गलमात्रनिवन्धनाभावात् , इह यत् पुद्गलमात्रनिबन्धनियतं न भवति, न तस्य विषयपरिमाणमस्ति, यथा केवलज्ञानस्य, यस्य च विषयपरिमाणमस्ति, तत्पुद्गलमात्रनिबन्धनियतं दृष्टं, यथाऽवधिज्ञानं मनःपर्यायज्ञानं वेति गाथासमासार्थः॥ । साम्प्रतं यदुक्तमासीत् यथा “नयनमनसोरप्राप्तकारित्वं 'पुढे सुणेइ सई' इत्यत्र वक्ष्यामः, तदुच्यते, नयनं योग्यदेशावस्थिताप्राप्तविषयपरिच्छेदक, प्राप्तिनिवन्धनतस्कृतानुग्रहोपघातशून्यत्वात् , मनोवत्, स्पर्शनेन्द्रियं विपक्ष इति । आह-जलघृतवनस्पत्यालोकनेष्वनुग्रहसद्भावात् सूर्योद्यालोकनेषु चोपघातसद्भावात् असिद्धो हेतुः, मनसोऽपि प्राप्तवि-12 पयपरिच्छेदकत्वात्साध्यविकलो दृष्टान्तः, तथा च लोके वक्तारो भवन्ति-"अमेत्र मे गतं मनः" इति, अत्रोच्यते, प्राप्ठिनिवन्धनाख्यहेतुविशेषणार्थनिराकृतत्वाद् अस्याक्षेपस्येत्यदोषः। किं च-यदि हि प्राप्तिनिबन्धनौ विषयकृतावनुग्रहोपघातौ स्यातां, एवं तर्हि अग्निशूल जलाद्यालोकनेषु दाहभेदक्केदादयः स्युरिति । किं च-प्राप्त विषयपरिच्छेदकत्वे सति अक्षिअञ्जनमलशलाकादिकमपि गृह्णीयात् । आह-नायना मरीचयो निर्गत्य तमर्थ गृह्णन्ति, ततैश्च तेषां तैजसत्वात्
सर्वेन्द्रियापेक्षया. २ प्राप्यकारीन्द्रियचतुष्कापेक्षया. ३ क्षेत्रेति. विषयेति. ५ विप्रकृष्ट कसिविनिर्दिश्यमाने स्खले इति. ६ नयनमरीचीनामेव निर्गमात, चक्षुपश्चानिर्गमात्, * निवन्धन, १-२-३-४ + निबन्धन. १-२-३-४ जलशूला. केदभेदा.
दीप
अनुक्रम
~ 28~