________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [२०६], भाष्यं [४...],
(४०)
ACC
प्रत
सूत्राक
18| रुवे इत्यादि' 'उवासणेति' उपासना-नापितकर्म तदपि तदैव जातं, प्राग्व्यवस्थितनखलोमान एवं प्राणिन आसन् इति, & गुरुनरेन्द्रादीनां वोपासनेति, 'चिकित्सा' रोगहरणलक्षणा सा तदैव जाता एवं सर्वत्र क्रियाध्याहारः कार्यः, 'अत्थसत्थे य'
त्ति अर्थशाखं, 'बंधे घाते य मारणे ति' बन्धो-निगडादिजन्यः घातो-दण्डादिताडना जीविताब्यपरोपणं मारणेति, सर्वाणि तदैव जातानीति द्वितीयद्वारगाथासमासार्थः । तृतीयगाथागमनिका-एकारान्ताः प्रथमद्वितीयान्ताः प्राकृते भवन्त्येव, तत्र यज्ञाः-नागादिपूजारूपा उत्सवाः-शक्रोत्सवादयः समवाया:-गोष्ठयादिमेलकाः, एते तदा प्रवृत्ताः, मङ्गलानि-स्वस्तिकसिद्धार्थकादीनि कौतुकानि-रक्षादीनि मङ्गलानि च कौतुकानि चेति समासः, मंगलेत्ति एकारः अलाक्षणिको मुखसुखोच्चारणार्थः, एतानि भगवतः प्राग देवैः कृतानि, पुनस्तदैव लोके प्रवृत्तानि, तथा 'वर्ख' चीनांशुकादि 'गन्धः' कोष्टपुटादिलक्षणः 'माल्यं पुष्पदाम 'अलङ्कारः केशभूषणादिलक्षणः, एतान्यपि वस्त्रादीनि तदैव जातानीति तृतीयद्वारगाथासमासार्थः । चतुर्थगाथागमनिका-तत्र 'चूलेति' बालानां चूडाकर्म,तेषामेव कलाग्रहणार्थ नयनमुपनयनं धर्मश्रवणनिमित्तं वा साधुसकाशं नयनमुपनयनं, वीवाह' प्रतीत एव, एते चूडादयः तदैव प्रवृत्ताः (३५००), दत्ता च कन्या पित्रादिना परिणीयत इत्येतत्तदैव संजातं, भिक्षादानं वा, मृतकस्य पूजना मरुदेव्यास्तदैव प्रथमसिद्ध इतिकृत्वा देवैः कृतेति लोके च रूढा, 'ध्यापना' अग्निसंस्कारः, स च भगवतो निर्वाणप्राप्तस्य प्रथमं त्रिदशैः कृतः, पश्चाल्लोकेऽपि संजातः, भगवदादिदग्धस्थानेषु स्तूपाः तदैव कृता लोके च प्रवृत्तार, शब्दश्च-रुदितशब्दो भगवत्येवापवर्ग गते भरतदुःखमसाधारणं ज्ञात्वा शक्रेण कृतः, लोकेऽपि रूढ एव, 'छेलापनकमिति' देशीवचनमुस्कृष्टबालक्रीडापन सेण्टिताद्यर्थवाचकमिति, तथा
दीप
अनुक्रम
ANS-NCRACXC
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~2624