________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१४४], भाष्यं [-]
(४०)
आवश्यक
हारिभद्रीयवृत्तिः विभागः१
॥१०७॥
प्रत
सुत्रांक
ततश्च पुंसः पुमांसमभिदधतः पुनिर्देश एव, एवं स्त्रियाः स्त्रियं प्रतिपादयन्त्याः स्त्रीनिर्देश एव, एवं नपुंसकस्य नपुंसक- मभिदधानस्य नपुंसकनिर्देश एव, यदा तु पुमान् स्त्रियमभिधत्ते, तदा रुयुपयोगानन्यत्वात् स्त्रीरूप एवासी, निर्देश्य- निर्देशकयोः समानलिङ्गतैव, एवं सर्वत्र योज्यं, असमानलिङ्गनिर्देष्टाऽस्य अवस्वेव, यदा पुमान् पुमांसं त्रियं चाहेति, कुतः, तस्य पुरुषयोपिद्विज्ञानोपयोगभेदाभेदविकल्पद्वारेण पुरुषयोषिदापत्तेः, अन्यथा वस्त्वभावप्रसङ्गात् , तस्मादुपयुक्तो यमर्थमाह स तद्विज्ञानानन्यत्वात्तन्मय एव, तन्मयत्वाच्च तत्समानलिङ्गनिर्देशः,ततश्च सामायिकवक्ता तदुपयोगानन्यत्वात् | सामायिक प्रतिपादयन्नात्मानमेवाह यतः तस्मात्तत्समानलिङ्गाभिधान एवासी, रूढितच सामायिकार्थरूपस्य नपुंसकत्वा स्त्रियाः पुंसो नपुंसकस्य वा प्रतिपादयतः सामायिकं नपुंसकलिङ्गनिर्देश एवेति गाथासमासार्थः । व्यासार्थस्तु विशेविवरणादवगन्तव्य इति । सर्वनयमतान्यपि चामूनि पृथग्विपरीतविषयत्वात् न प्रमाण, समुदितानि त्वन्तर्बाह्यनिमित्तसामग्रीमयत्वात् प्रमाणमिति अलं विस्तरेण, गमनिकामात्रप्रधानत्वात् प्रस्तुतप्रयासस्य ॥ १४४ ॥
इदानीं निर्गमविशेषस्वरूपप्रतिपादनायाहनामं ठवणा दविए खित्ते काले तहेव भावे अ । एसो उ निग्गमस्सा णिक्खेवो छविहो होइ ॥१४५ ॥ | गमनिका-नामस्थापने पूर्ववत्, द्रव्य'निर्गम:-आगमनोआगमज्ञशरीरेतरव्यतिरिका, स च त्रिधा-सचित्ताचित्तमिश्रभेदभिन्नः, तत्र सचित्तात्सचित्तस्य यथा पृथिव्या अकरस्य, सचित्तान्मिश्रस्य यथा-भूमेः पतङ्गस्य, सचित्तादचित्तस्य
पक्षस्य अचित्तत्वात. * संयोज्यं. + ति सामा०. निम्यरूप द्रव्याद्वा. रिक्त सचिता..
RSSRADHA
दीप
अनुक्रम
॥१०७॥
Swlanmiorary.org
मनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~217~