________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
आवश्यक
॥ ८६ ॥
英多次
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [−], मूलं [– /गाथा -], निर्युक्ति: [ १३१], भाष्यं [-]
सुय धम्म तित्थ मग्गो पावयणं पवयणं च एगट्ठा। सुत्तं तंतं गंथो पाढो सत्थं च एगट्ठा ॥ १३० ॥ अणुओगो व नियोगो भास विभासा य वत्तियं चैव । अणुओगस्स उ एए नामा एगट्टिआ पंच ॥ १३१ ॥ प्रथमगाथा व्याख्या - एकोऽर्थो येषां तान्येकार्थिकानि, त्रीण्येव, प्रवचनं पूर्वव्याख्यातं, सूचनात् सूत्रं, अर्यत इत्यर्थः, 'चः' समुच्चये, इह च प्रवचनं सामान्यश्रुतज्ञानं, सूत्रार्थी तु तद्विशेषादिति, आह- सूत्रार्थयोः प्रवचनेन सहैकार्थता युक्ता, तद्विशेषत्वात् सूत्रार्थयोस्तु परस्परविभिन्नत्वात् न युज्यते, तथा च सूत्रं व्याख्येयं अर्थस्तु तद्व्याख्यानमिति, अथवा त्रयाणामध्येषां भिन्नार्थतैव युज्यते, प्रत्येकमेकार्धिकविभागसद्भावात्, अन्यथा एकार्थिकत्वे सति भेदेनैकार्थिकाभिधानमयुक्तमिति, अत्रोच्यते, यथा हि मुकुलविकसितयोः पद्मविशेषयोः संकोचविकासपर्यायभेदेऽपि कमलसामान्यतयाऽभेदः, एवं सूत्रार्थयोरपि प्रवचनापेक्षया परस्परतश्चेति, तथाहि-अविवृर्त मुकुलतुल्यं सूत्रं तदेव विवृतं प्रबोधितं विकच कल्पमर्थः, प्रवचनं चोभयमपीति, यथा चैषामेकार्थिक विभाग उपलभ्यते - कमलमरविन्दं पङ्कजमित्यादि पद्मकार्थिकानि, तथा कुडूमलं वृन्दं संकुचितमित्यादि मुकुलैकार्थिकानि, तथा विकचं फुलं विबुद्धमित्यादि विकसितैकार्थिकानि, तथा प्रवचन सूत्रार्थानामपि पद्ममुकुल विकसितकल्पानामेकार्थिकविभागोऽविरुद्धः । अथवा अन्यथा व्याख्यायते - एकार्थिकानि त्रीण्येवाश्रित्य वक्तव्यानि, प्रवचनमेकार्थगोचरः तथा सूत्रमर्थश्चेति, शेषं पूर्ववत् । आह-द्वारगाथायां यदुक्तं 'प्रवचनै कार्थिकानि वक्तव्यानि ' तव्याहन्यते, न, सामान्यविशेषरूपत्वात्प्रवचनस्य, सूत्रार्थयोरपि प्रवचनविशेषरूपत्वेन प्रवचनत्वोपपत्तेः । आह-यद्येवं विभागश्चेति द्वारोपन्यासानर्थक्यं, न, विभागश्चेति किमुक्तं भवति ? नाविशेषेणैकार्थिकानि वक्तव्यानि सामान्यविशेषरूप
Education intimation
For Pres
हारिभद्री • यवृत्तिः विभागः १
~ 175 ~
॥ ८६ ॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः