________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-१३] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४२....,
(४०)
प्रत
सूत्रांक [सू.१३]
अईयारविमुख अणुव्वयगुणब्बयाई च अभिग्गहा अन्नेऽवि पडिमादओ विसेसकरणजोगा, अपसिछमा मारणंतिया संलेहणाझसणाराहणया, इमीए समणोवासएर्ण इमे पश्च०, तंजहा-इहलोगासंसप्पभोगे परलोगासं-| सप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे ॥ १३ ॥ (सूत्रं)
अत्र पुनः श्रमणोपासकधर्म पुन शब्दोऽवधारणार्थः, अत्रैव न शाक्यादिश्रमणोपासकधर्मे, सम्यक्त्वाभावेनाणुव्रतायभावादिति, वक्ष्यति च-एत्थ पुण समणोवासगधम्मे मूलवत्धुं संमत्त'मित्यादि, पञ्चाणुव्रतानि प्रतिपादितस्वरूपाणि त्रीणि |गुणव्रतानि उक्तलक्षणान्येव 'यावत्कधिकानी'ति सकृद्गृहीतानि यावज्जीवमपि भावनीयानि, चत्वारीति सङ्ख्या 'शिक्षा-18 पदव्रतानी'ति शिक्षा-अभ्यासस्तस्य पदानि-स्थानानि तान्येव व्रतानि शिक्षापदन्नतानि, 'इत्वराणी'ति तत्र प्रतिदिवसानु-12
ये सामायिकदेशावकाशिके पुनः पुनरुचायें इति भावना, पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयाविति । आह-अस्य श्रमणोपासकधर्मस्य किं पुनर्मूलवस्विति ?, अत्रोच्यते, सम्यक्त्वं, तथा चाह ग्रन्थकार:-'एतस्स पुणो समणोवासग.' अस्य पुनः श्रमणोपासकधर्मस्य, पुनःशब्दोऽवधारणार्थः अस्यैव, शाक्यादिश्रमणोपासकधर्मे सम्यक्त्वाभावात् न मूलवस्तु सम्यक्त्वं, वसन्त्यस्मिन्नणुव्रतादयो गुणास्तद्भावभावित्वेनेति वस्तु मूलभूतं द्वारभूतं च तद वस्तु च मूलवस्तु, तथा चोक्तम्-"द्वारं मूलं प्रतिष्ठानमाधारो भाजन निधिः। द्विषट्कस्यास्य धर्मस्य, सम्यक्त्वं परिकीर्तितम्॥१॥"सम्यक्त्वं-प्रशमादिलक्षणं, उक्तं च-"प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं सम्यक्त्व"(तत्त्वा० भाष्ये अ०१सू०२)मिति, कथं पुनरिदं भवत्यत आह-'तन्निसम्गेण 'तत्-वस्तुभूतं सम्यक्त्वं निसर्गेण वाऽधिगमेन वा भवतीति
नानक
दीप अनुक्रम [८१]
450
Narayan
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~1679~