________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
आवश्यक
॥ ८२ ॥
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [- /गाथा - ], निर्युक्ति: [११६], भाष्यं [-]
पशमात् इह चोपशमादविरोध इति, आह-क्षयोपशमोपशमयोरेव कः प्रतिविशेषः ?, उच्यते, क्षयोपशमो ह्युदीर्णस्व क्षयः अनुदीर्णस्य च विपाकानुभवापेक्षया उपशमः, प्रदेशानुभवतस्तु उदयोऽस्त्येव, उपशमे तु प्रदेशानुभवोऽपि नास्तीति, उत्कं च भाष्यकारेण - "वेदेई संतकम्मं खओवसमिएस नाशुभावं सो । उवसंतकसाओ उण वेएइ न संतकम्मंपि ॥ १ ॥” आह-संयतस्यानन्तानुबन्धिनामुदयो निषिद्धस्तत् कथमुपशम इति उच्यते स ह्यनुभावकर्माङ्गीकृत्य न तु प्रदेशकर्मेति, तथा चोकमार्षे - "जीवे' णं भन्ते ! सयंकडं कम्मं वेदेइ ?, गोयमा ! अत्थेगइअं वेइए अत्थेगइअं नो वेएइ, से केणट्टेणं ? भन्ते ! पुच्छा, गोयमा ! दुविहे कम्मे पण्णत्ते, तंजहा-पएसकम्मे अ अणुभावकम्मे अ, तत्थ णं जं तं पएसकम्मं तं नियमा वेएइ, तत्थ णं जं तं अणुभावकम्मं तं अत्येगइअं वेएड्, अत्थे गइयंणो वेएइ" इत्यादि, ततश्च प्रदेशकर्मानुभावोदयस्येहोपशमो द्रष्टव्यः । आह-यद्येवं संयतस्य अनन्तानुबन्ध्युदयतः कथं दर्शनविघातो न भवति ?, उच्यते, प्रदेश कर्मणो मन्दानुभावत्वात्, तथा कस्यचिदनुभावकर्मानुभवोऽपि नात्यन्तमपकाराय भवन्नुपलभ्यते, यथा संपूर्णमत्यादिचतुर्ज्ञानिनः तदावरणोदय इत्यलं विस्तरेण ॥ ११६ ॥
१ वेदयत्ति सत्कर्म क्षायोपशमिकेषु मानुभावं सः । उपशान्तकषायः पुनर्वेदद्यति न सत्कर्मापि । १ २ जीवो भदन्त ! स्वयंकृतं कर्म वेदयति ! गौतम ! अस्त्येककं (किञ्चिद्) वेदयति, अस्त्येककं न वेदयति, तत् केनार्थेन ? भदन्त ! पृच्छा, गौतम द्विविधं कर्म प्रज्ञसं, तद्यथा- प्रदेशकर्म अनुभावकर्म च तत्र यत्तत् प्रदेशकर्म तत् नियमाद्वेदयति, तत्र यत् अनुभावकर्म तत् अस्त्येककं वेदयति, अस्त्येककं नो बेदयति
Education intemational
For Fasten
हारिभद्रीयवृत्तिः विभागः १
~ 167 ~
॥ ८२ ॥
dancibrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः