________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [-- /गाथा -], निर्युक्तिः [ ११५], भाष्यं [-]
॥ ८० ॥
आवश्यक- न्तव्यः । अभिहितमानुषङ्गिकं, इदानीं प्रकृतमुच्यते - आह-पुरिमपश्चिमतीर्थकर साधूनामपि यदित्वरं सामायिकं तत्रापि ★ करोमि भदन्त ! सामायिकं यावज्जीव' इतीत्वरस्याप्याभवग्रहणात् तस्यैव उपस्थापनायां परित्यागात् कथं न प्रतिज्ञा* लोप इति, अत्रोच्यते, - अतिचाराभावात्, तस्यैव सामान्यतः सावद्ययोगविनिवृत्तिरूपेणावस्थितस्य शुद्ध्यन्तरापादनेन संज्ञामात्र विशेषात् इति । चशब्दो वाक्यालङ्कारे, 'प्रथमं' आद्यं चारित्रमिति, इदानीं 'छेदोपस्थापनं' छेदश्चोपस्थापनं च यस्मिंस्तच्छेदोपस्थापनं, एतदुक्तं भवति – पूर्वपर्यायस्य छेदो महाव्रतेषु चोपस्थापनमात्मनो यत्र तच्छेदोपस्थापनं तच्च सातिचारमनतिचारं च तत्रानतिचारं यदित्यरसामायिकस्य शिक्षकस्य आरोष्यत इति, तीर्थान्तरसंक्रान्तौ वा यथा पार्श्वनाथतीर्थात् वर्धमान स्वामितीर्थं संक्रामतः पञ्चयामधर्मप्रतिपत्ताविति, सातिचारं तु मूलगुणघातिनो यत् पुनर्प्रतोचारणमिति, उक्तं छेदोपस्थापनं, इदानीं परिहारविशुद्धिकं तत्र परिहरणं परिहारः- तपोविशेषः तेन विशुद्धिर्यस्मिंस्तत्परिहारविशुद्धिकं तच्च द्विभेदं निर्विशमानकं निर्विष्टकायिकं च तत्र निर्विशमान कास्तदासेवकाः तदव्यतिरेकात् तदपि चारित्रं निविंशमानकमिति, आसेवितविवक्षितचारित्रकायास्तु निर्विष्टकायाः त एव स्वार्थिकप्रत्ययोपादानात् निर्विष्टका| विकाः तदव्यतिरेकाञ्चारित्रमपि निर्विष्टकायिकमिति, इह च नवको गणो भवति, तत्र चत्वारः परिहारिका भवन्ति, अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारिकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः एतेषां च निर्विशमानकानामयं परिहारः - परिहारियाण उ तवो जहण्ण मज्झो तहेव उक्कोसो। सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं । १ । 1 परिहारिकाणां तु तपो जपन्यं मध्यमं तथैवोत्कृष्टम् । शीतोष्ण वर्षाकाले भणितं धीरैः प्रत्येकम् । 1।
Ja Educat
For Parts Only
हारिभद्रीयवृत्तिः विभागः १
~ 163~
॥ ८० ॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः