________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति: [१५००] भाष्यं [२३१...],
(४०)
आवश्यक- हारिभद्रीया
कायोत्सगोंध्य अतिचारकायोत्स०
प्रत सूत्रांक
॥७८१॥
-%5CROLX
[सू.]
दीप अनुक्रम [३९]
कादौ विषये आलोए देसिए य अतिचारे'त्ति अवलोकयेत्-निरीक्षेत दैवसिकानतिचारान्-अविधिप्रत्युपेक्षिताप्रत्युपेक्षिता- दीनिति, ततः 'सबे समणाइत्ता' सर्वानतिचारान मुखवस्त्रिकाप्रत्युपेक्षणादारभ्य यावत् कायोत्सर्गावस्थानमत्रान्तरे य इति समाण इत्ता' समाप्य बुद्ध्यवलोकनेन समाप्तिं नीत्वा एतावन्त एत इति, नातः परमतिचारोऽस्ति ततो 'हृदये' चेतसि दोषान्प्रतिषिद्धकरणादिलक्षणान् आलोचनीयानित्यर्थः, स्थापयेदिति गाधार्थः ॥ १४९९ ॥ कृत्वा हृदये दोषान् यथाक्रममिति प्रतिसेवनानुलोम्येन आलोचनानुलोम्येन च, प्रतिसेवनानुलोम्यं नाम ये यथाऽऽसेविता इति, आलोचनानुलोम्यं तु पूर्व | लघव आलोच्यन्ते पश्चाद् गुरव इति, 'जा न ताव पारेति त्ति यावन्न तावत् पारयति गुरुर्नमस्कारेण, 'ताव सुहुमाणु-8 पाणु'त्ति तावदिति कालावधारणं, सूक्ष्मप्राणापानः, सूक्ष्मोच्छासनिश्वास इत्यर्थः, किं ?-'धम्म सुकं च झापज्जा' धर्मध्यानं| प्रतिक्रमणाध्ययनोक्तस्वरूपं शुक्कै ध्यानं च ध्यायेदिति गाथार्थः ॥ १५००॥ एवंदेसिय राइय पक्खिय चाउम्मासे तहेव वरिसे य । इकिक्के तिन्नि गमा नायव्वा पंचसेएसु ॥१५०१॥ | व्याख्या-'देवसिय'त्ति देवसिके प्रतिक्रमणे दिवसेन निवृत्तं देवसिक, 'राइय'त्ति रात्रिके, 'पक्खिए'त्ति पाक्षिके : 'चाउम्मासे'त्ति चातुर्मासिके तथैव 'वरिसि'त्ति तथैव वार्षिके च, वर्षेण निवृत्तं वार्षिक-सांवत्सरिकमिति भावना, एकैकस्मिन् प्रतिक्रमणे देवसिकादौ त्रयो गमा ज्ञातव्याः, पञ्चस्वेतेषु दैवसिकादिषु, कथं त्रयो गमाः, सामायिकं कृत्वा कायोत्सर्गकरणं, सामायिकमेव कृत्वा प्रतिक्रमणं, सामायिकमेव कृत्वा पुनः कायोत्सर्गम् , इह च यस्माद् दिवसादि तीर्थ | दिवसप्रधानं च तस्माद् दैवसिकमादाविति गाथार्थः ॥ १५०१॥ अत्राह चोदकः
CR5RECECARE
॥७८१॥
JanEaati
||
Anatorary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~15644