________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम
[२८]
आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], निर्युक्तिः [१३२०...] भाष्यं [२१३],
द्विविधः - श्रुतधर्मश्चारित्रधर्मश्च, आशातना तु-पाययसुत्तनिबद्धं को वा जाणेड़ पणीय केणेयं १ । किं वा चरणेणं तू दाणेण विणा व हवइन्ति ॥ १ ॥ उत्तरं - " बाल स्त्रीमूढ (मन्द) मूर्खाणां नृणां चारित्रकाङ्क्षिणाम्। अनुग्रहार्थं तत्त्वज्ञैः, सिद्धान्तः प्राकृतः कृतः ॥ १ ॥" निपुणधर्मप्रतिपादकत्वाच्च सर्वज्ञप्रणीतत्वमिति, चरणमाश्रित्याह- 'दानमौर विकेणापि, चाण्डालेनापि दीयते । येन वा तेन वा शीलं न शक्यमभिरक्षितम् ॥ १ ॥ दानेन भोगानाप्नोति, यत्र यत्रोपपद्यते । शीलेन भोगान् स्वर्ग च, निर्वाणं चाधिगच्छति ॥ २ ॥ तथाऽभयदानदाता चारित्रवान्नियत एवेति । सदेवमनुष्यासुरस्य लोकस्याऽऽशातनया, क्रिया प्राग्वत्, आशातना तु वितथप्ररूपणादिना, आह च भाष्यकारः
| देवादीयं लोयं विवरीयं भगद् सत्तदीबुदही । तह कह पयावईणं पयईपुरिसाण जोगो वा ॥ २१३ ॥ उत्तरं सत्तसु परिमियसत्ता मोक्खो सुण्णत्तणं पयावह य । केण कउत्तणवत्था पयडीएँ कहं पवित्तित्ति १ ॥ २१४ || जमचेयणन्ति पुरिसत्थनिमित्तं किल पबन्तती साय। तीसे च्चिय अपवित्ती परोत्ति सव्वं चिय विरुद्धं ॥ २१५॥ (भा० )
सर्वप्राणभूत जीवसत्त्वानामाशातनया, क्रिया प्राग्वत्, तत्र प्राणिनः - द्वीन्द्रियादयः व्यक्तोच्छ्रासनिःश्वासा अभूवन् भवन्ति भविष्यन्ति चेति भूतानि - पृथिव्यादयः जीवन्ति जीवा - आयुः कर्मानुभवयुक्ताः सर्व एवेत्यर्थः सत्त्वाः- सांसारिकसंसा
१ प्राकृतः सूचनिबन्ध इति को ना जानाति केनेदं प्रणीतमिति । किं वा पारित्रेणैव दानेन विना भवति तु ॥ १ ॥ देवादिकं लोकं विपरीतं वदति सप्त द्वीपोधनः । तथा कृतिः प्रजापतेः प्रकृतिपुरुषयोः संयोगो वा ॥ १ ॥ उत्तरं सप्तसु परिमिताः सच्चा अमोक्षः शुन्यत्वं वा प्रजापतिश्च । केन कृत इत्यन प्रकृतेः कथं प्रवृत्तिरिति ? ॥ २ ॥ यदचेतनेति पुरुषार्थनिमित्तं किल प्रवर्तते सा च । तस्था एवाप्रवृत्ता वितरोऽपि सर्वमेवैवं विरुद्धम् ॥ ३ ॥
~1462~