________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...],
(४०)
प्रत सूत्रांक
[सू...]
व्याख्या-पूर्व-ध्यानात् प्रथमं कृता-निर्वतितोऽभ्यासः-आसेवनालक्षणो येन स तथाविधः, काभिः पूर्वकृताभ्यासः -'भावनाभिः' करणभूताभिः भावनासु वा-भावनाविषये पश्चादू 'ध्यानस्य' अधिकृतस्य 'योग्यताम्' अनुरूपताम् 'उपैति' यातीत्यर्थः, 'ताश्च' भावना ज्ञानदर्शनचारित्रवैराग्यनियता वर्तन्ते, नियताः-परिच्छिन्नाः पाठान्तरं वा । जनिता इति गाथार्थः ॥ ३०॥ साम्प्रतं ज्ञानभावनास्वरूपगुणदर्शनायेदमाह
णाणे विचम्भासो कुणद मणोधारणं विसुद्धिं च । नाणगुणमुणियसारो तो साद सुनिश्चलमईयो ॥३१॥ व्याख्या-'ज्ञाने' श्रुतज्ञाने, नित्य-सदा अभ्यास:-आसेवनालक्षणः 'करोति' निर्वर्तयति, किं ?-मनसः--अन्तःकर-| णस्य, चेतस इत्यर्थः, धारणम्-अशुभव्यापारनिरोधेनावस्थानमिति भावना, तथा 'विशुद्धिं च तत्र विशोधनं विशुद्धिः, सूत्रार्थयोरिति गम्यते, तां, चशब्दाद्भवनिर्वेदं च, एवं 'ज्ञानगुणमुणितसार' इति ज्ञानेन गुणानां-जीवाजीवाश्रितानां 'गुणपर्यायवत् द्रव्य मिति (तत्त्वा० अ०५ सू० ३७) वचनात् पर्यायाणां च तदविनाभाविना मुणित:-ज्ञातः सार:परमार्थों येन स तथोच्यते, ज्ञानगुणेन वा-ज्ञानमाहात्म्येनेति भावः ज्ञातः सारो येन, विश्वस्येति गम्यते, स तथाविधः, ततश्च पश्चाद् ध्यायति' चिन्तयति, किंविशिष्टः सन् १-सुष्टु-अतिशयेन निश्चला-निष्पकम्पा सम्यग्ज्ञानतोऽन्यथाप्रबृत्तिकम्परहितेति भावः मतिः-युद्धिर्यस्य स तथाविध इति गाथार्थः ॥ ३१ ॥ उक्ता ज्ञानभावना, साम्पतं दर्शनभावना-1 स्वरूपगुणदर्शनार्थमिदमाह
संकाइदोसरदिभो पसमथेजाइगुणगणोवेभो । होइ असमूहमणो दंसणसुदी झाण मि ॥ ३२ ॥
दीप अनुक्रम [२१..]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~1184 ~