________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...],
(४०)
प्रत सूत्रांक
[सू...]
दीप अनुक्रम [२१..]
योगः स्यादिति भावः १, अनेन वर्तमानकालग्रहः, तथा सति च वियोगेऽसम्प्रयोगानुस्मरण, कथमेभिः सदैव सम्पयोगाभाव इति ?, अनेन चानागतकालग्रहः, चशब्दात् पूर्वमपि वियुक्तासम्प्रयुक्तयोर्बहुमतत्वेनातीतकालग्रह इति, किंविशिष्टस्य |सत इदं वियोगचिन्तनाद्यत आह-द्वेषमलिनस्य' जन्तोरिति गम्यते, तत्राप्रीतिलक्षणो द्वेषस्तेन मलिनस्य-तदाक्रान्तमूर्ते-1 रिति गाथार्थः॥६॥ उक्तः प्रथमो भेदः, साम्प्रतं द्वितीयमभिधित्सुराह
ता सूलसीसरोगाइवेषणाए (लि) जोगपणिहाणं । तदसंपभोगविता तप्पडियाराग्लमणरस ॥ ७॥ . व्याख्या-तथेति धणियम्-अत्यर्थमेव, शूलशिरोरोगवेदनाया इत्यत्र शूलशिरोरोगी प्रसिद्धी, आदिशब्दाच्छेषरोमातङ्कपरिग्रहः, ततश्च शूलशिरोरोगादिभ्यो वेदना २, वेद्यत इति वेदना तस्याः, किं-वियोगप्रणिधान' वियोगे दृढाध्यवसाय इत्यर्थः, अनेन वर्तमानकालग्रहः, अनागतमधिकृत्याह-तदसम्प्रयोगचिन्ते'ति तस्याः-वेदनायाः कथञ्चिदभावे सत्यसम्प्रयोगचिन्ता, कथं पुनर्ममानया आयत्यां सम्प्रयोगो न स्यादिति ?, चिन्ता चात्र ध्यानमेव गृह्यते, अनेन च वर्तमानानागतकालग्रहणेनातीतकालग्रहोऽपि त एव वेदितव्यः, तत्र च भावनाऽनन्तरगाथायां कृतैव, किंविशिष्टस्य |सत इदं वियोगप्राणिधानाधत आह-तत्यतिकारे-वेदनाप्रतिकारे चिकित्सायामाकुल-ध्ययं मनः-अन्तःकरणं यस्य स तथाविधस्तस्य, वियोगप्रणिधानाचार्तध्यानमिति गाथार्थः ॥७॥ उक्तो द्वितीयो भेदः, साम्प्रतं तृतीयमुपदर्शयन्नाह
इहाणं विसयाईण वेयणाए य रागरचरस । अवियोगमयसाणं तह संजोगाभिलासोय ॥८॥ व्याख्या-'इष्टानां' मनोज्ञानां विषयादीनामिति विषयाः-पूर्वोक्ताः आदिशब्दाद् वस्तुपरिग्रहः, तथा 'वेदनायाश्च
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~1172~