________________
आगम
(४०)
प्रत
सूत्रांक
[स्.-]
दीप
अनुक्रम
[२१]
आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः)
अध्ययन] [४] मूलं [.] / [गाथा-], निर्युक्तिः [ १२७१...] आयं [२०४....
स्त्रीकथादिलक्षणा, तत्र स्त्रीणां कथा स्त्रीकथा तया, सा चतुर्विधा जातिकथा कुलकथा रूपकथा नेपथ्यकथा, तत्र जातिकथा ब्राह्मणीप्रभृतीनामन्यतमां प्रशंसति द्वेष्टि या, कुलकथा उग्रादिकुलप्रसूतानामन्यतमां, रूपकथा अन्धिप्रभृतीनामन्यतमाया रूपं प्रशंसति- 'अन्ध्रीणां च ध्रुवं लीळाचलित धूलते मुखे । आसज्य राज्यभारं स्वं सुखं स्वपिति मन्मथः ॥ १ ॥ इत्यादिना द्वेष्टि वाऽन्यथा, नेपथ्यकथा अन्ध्रीप्रभृतीनामेवान्यतमायाः कच्छटादिनेपथ्यं प्रशंसति द्वेष्टि वा, तथा भक्तम्ओदनादि तस्य कथा भक्तकथा तया, सा चतुर्विधाऽऽवापादिभेदतः यथोक्तम्- 'भर्त्तकहावि चउद्धा आवावकहा तहेव णिद्यावे | आरंभकहा य तहा मिट्ठाणकहा चउत्थी उ ॥ १ ॥ आवावित्तियदत्वा सागघयादी य एत्थ उवउत्ता । दसपंचरूवइत्तियवंजणभेयाइ णिवावे ॥ २ ॥ आरंभ छागतित्तिरम हिसारण्णादिया वधित एत्थ । स्वगसयपंचसया णिद्वाणं जा सयसहर्स ॥ ३ ॥ देश:- जनपदस्तस्य कथा देशकथा तया, इयमपि छन्दादिभेदादिना चतुर्दैव, यथोक्तम् - देसस्स कहा भण्णइ देसकहा देस जणवओ होति । सावि चउद्धा छंदो विही विगप्पो य वत्थं ॥ १ ॥ छंदो गम्भागम्मं जह माउलदुहियमंगलाष्डाणं । अण्णेसिं सा भगिणी गोलाईणं अगम्मा उ ॥ २ ॥ मातिसवत्तिउदिचाण गम्म अण्णेसि एग पंच ।
१] भक्तापि चतुर्थी आवापकथा तथैव निर्वा आरम्भकथाघ तथा निष्ठानकथा चतुर्थी च ॥१॥ आधाप ईयद्रव्या शाकादिश्राश्रोपयुक्ताः । दश पञ्चरूप्यका इयद्यनभेदादिर्निवा ॥ २ ॥ आरम्भे छागतितिरमहिपारण्यादिका हता अत्र । शतपञ्चशतरूपका निष्ठानं यावत् शतसहस्रम् ॥ ३ ॥ देशस्य कथा भव्यते देशकथा देशो जनपदो भवति । साऽपि चतुध छन्दो विधिर्विकल्प नेपथ्यम् ॥ १ ॥ छन्दो गम्यागम्यं यथा मातुलदुहिताऽङ्गलाटानाम् । अन्येषां सा भगिनी गोहादीनामयम्या तु ॥ २ ॥ मातृसपली तु उदीच्यानां गया अन्येषामेका पञ्चानाम् ।
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
------
~ 1164 ~