________________
आगम
(४०)
प्रत
सूत्रांक
||..||
दीप
अनुक्रम
[९..]
आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्ति:)
अध्ययन [३], मूलं [-] / [गाथा - ७...], निर्युक्तिः [१२०१], भाष्यं [ २०४...],
न्यस्तहस्त शिरः स्थापनारूपाः, निष्क्रम्य पुनः प्रविष्टस्याप्येत एव पडिति एतच्चापान्तरालद्वारद्वयमाद्यद्वारोपलक्षितमवगन्तव्यं गतं कत्यवनतद्वारं, साम्प्रतं 'कतिशिर' इत्येतद्वारं व्याचिख्यासुरिदमपरं गाथाशकलमाहचउसिरं तिगुप्तं च दुपवेसं एगनिक्खमणं ।। १२०२ ।।
व्याख्या - चत्वारि शिरांसि यस्मिंस्तच्चतुः शिरः, प्रथमप्रविष्टस्य क्षामणाकाले शिष्याचार्यशिरोद्वयं पुनरपि निष्क्रम्य प्रविष्टस्य द्वयमेवेति भावना, द्वारं । तिम्रो गुप्तयो यस्मिंस्तत्रिगुप्तं, मनसा सम्यक्प्रणिहितः वाचाऽस्खलिताक्षराण्युच्चारयन् कायेनावर्तान विराधयन् वन्दनं करोति यतः चशब्दोऽवधारणार्थः, द्वौ प्रवेशौ यस्मिंस्तद्विप्रवेशं प्रथमोऽनुज्ञाप्य प्रविशतः, द्वितीयः पुनर्निर्गतस्य प्रविशत इति, एकनिष्क्रमणमावश्यक्या निर्गच्छतः, एतच्चापान्तरालद्वारत्रयं कतिशिरोद्वारेणैवोपलक्षितमवगन्तव्यमिति गाथार्थः ।। १२०२ ।। साम्प्रतं कतिभिर्वाऽऽवश्यकैः परिशुद्धमिति द्वारार्थोऽभिधीयते, तथा चाऽऽह
अवणामा दुन्नहाजायं, आवत्ता बारसेव उ । सीसा चत्तारि गुत्तीओ, तिन्नि दो य पवेसणा ॥ १२०३ ॥ एनिक्मणं चेव, पणवीसं विग्राहिया। आवस्सगेहिं परिसुद्धं, किहकम्मं जेहि कीरई ।। १२०४ ॥ व्याख्या - गाथाद्वयं निगदसिद्धमेव, एभिर्गाथाद्वयोक्तेः पञ्चविंशतिभिरावश्यकैः परिशुद्धं कृतिकर्म कर्तव्यम्, अन्यथा द्रव्यकृतिकर्म भवति ॥ १२०३ - १२०४ ॥ आह च
* Peter.
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~1088~