________________
आगम
(१८)
प्रत
सूत्रांक
[१४९ ]
दीप
अनुक्रम
[२७६]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
वक्षस्कार [७],
मूलं [ १४९ ]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बूद्वीपक्षान्तिचन्द्री - या वृत्तिः
॥४७६ ॥
| चैकोनविंशत्यधिकानि योजनशतानि षोडश च भागसहस्राणि त्रीणि च पञ्चषष्ट्यधिकानि भागशतानि गच्छति मण्डलमेकविंशत्या भागसह सैर्नवभिश्च षष्ट्यधिकैः शतैः छित्त्वा इति, अत्रोपपत्तिः-अत्र मण्डले परिधिः ३१८३१५, अयं त्रिभिः सप्तषष्ट्यधिकैः शतैः ३६७ गुण्यते जातं ११६८२१६०५, अस्य राशेरेकविंशत्या सहस्रैर्नवभिः शतैः षष्ट्यधिकैः भागे लब्धानि ५३१९ योजनानि शेर्पा ३३३६५ भागाः, एतावती सर्वबाह्ये नक्षत्रमण्डले मृगशीर्षप्रभृतीनामष्टानां नक्षत्राणां मुहूर्त्तगतिः, उक्ता तावत् सर्वाभ्यन्तरसर्वबाह्यमण्डलवर्त्तिनां नक्षत्राणां मुहूर्त्तगतिः, अथ नक्षत्रतारकाणामवस्थितमण्डलकत्वेन प्रतिनियतगतिकत्वेन चावशिष्टेषु षट्सु मण्डलेषु मुहूर्त्तगतिपरिज्ञानं दुष्करमिति तत्कारणभूतं मण्डलपरिज्ञानं कर्त्तुं नक्षत्रमण्डलानां चन्द्रमण्डलेषु समवतार प्रश्नमाह - 'एते ण'मित्यादि, एतानि भदन्त ! अष्टौ नक्षत्रमण्डलानि कतिषु चन्द्रमण्डलेषु समवतरन्ति - अन्तर्भवन्ति, चन्द्रनक्षत्राणां साधारणमण्डलानि कानीत्यर्थः, भगवानाह - गौतमाष्टासु चन्द्रमण्डलेषु समवतरन्ति तद्यथा-प्रथमे चन्द्रमण्डले प्रथमं नक्षत्रमण्डलं, चारक्षेत्रसञ्चारिणा| मनवस्थितचारिणां च सर्वेषां ज्योतिष्काणां जम्बूद्वीपेऽशीत्यधिक योजनशतमवगाह्येव मण्डलप्रवर्त्तनात्, तृतीये चन्द्रमण्डले द्वितीयं एते च द्वे जम्बूद्वीपे पष्ठे लवणे भाविनि चन्द्रमण्डले तृतीयं तत्रैव भाविनि सप्तमे चतुर्थ अष्टमे पञ्चमं दशमे षष्ठं एकादशे सप्तमं पञ्चदशेऽष्टमं शेषाणि तु द्वितीयादीनि सप्त चन्द्रमण्डलानि नक्षत्रैर्विरहितानि, तत्र प्रथमे चन्द्रमण्डले द्वादश नक्षत्राणि, तद्यथा-अभिजिच्छ्रवणो धनिष्ठा शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा रेवती अश्विनी
Fir P&Permalise City
~955~
वक्षस्कारे क्षण्डलादि
स्. १४९
॥४७६ ॥