________________
आगम
(१८)
प्रत
सूत्रांक
[१४७]
दीप
अनुक्रम [२७४]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
वक्षस्कार [७],
मूलं [१४७]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
पष्टयधिकानि योजनशतान्यायामविष्कम्भाभ्या, उपपत्तिस्तु जम्बूद्वीपो दक्षं उभयोः प्रत्येकं श्रीणि योजनशतानि त्रिंशदधिकानि उभयमीलने योजनानां षट् शतानि षष्ट्यधिकानीति, त्रीणि च योजनलक्षाणि अष्टादश सहस्राणि त्रीणि च पञ्चदशोत्तराणि योजनशतानि परिक्षेपेण, अत्रोपपत्तिः जम्बूद्वीपपरिधी षष्ट्यधिकषट्शतपरिधी प्रक्षिसे भवति यथोक्तं मानं, अथ द्वितीयं 'बाहिरराणन्तर' मित्यादि, वाह्यानन्तरं द्वितीयं मण्डलमित्यर्थः पृच्छति प्रश्नालापकस्तथैव, उत्तरसूत्रे | गौतम! एकं योजनलक्षं पश्च सप्ताशीत्यधिकानि योजनशतानि नव चैकषष्टिभागान् योजनस्य एकं च एकषष्टिभागं सप्तधा छिया पट् चूर्णिकाभागान् आयामविष्कम्भाभ्यां अत्रोपपत्तिः पूर्वराशेद्वसप्ततिं योजनान्येकपञ्चाशतं चैकषष्टिभागान् योजनस्य एकस्य च एकषष्टिभागस्य सप्तधा छिन्नस्य एक भागमपनीय कर्त्तव्या, त्रीणि योजनलक्षाणि | अष्टादश सहस्राणि पञ्चाशीतिं योजनानि परिक्षेपेण, सर्वबाह्यमण्डलपरिधेद्वे शते त्रिंशदधिके योजनानामपनयने यथोक्तमानं, अथ तृतीयं 'बाहिरतचे णमित्यादि, बाह्यतृतीयं भदन्त ! चन्द्रमण्डलं यावच्छब्दात् सर्व प्रश्नसूत्रं ज्ञेयं, उत्तरसूत्रे - गौतम ! एकं योजन लक्षं पश्च चतुर्दशोत्तराणि योजनशतानि एकोनविंशतिं चैकषष्टिभागान् योजनस्य एकं चैकषष्टिभागं सप्तधा छिश्वा पञ्च चूर्णिकाभागान् आयामविष्कम्भाभ्यां अत्र सङ्गतिस्तु द्वितीयमण्डलराशेः द्वासप्तति| योजनादिकं राशिमपनीय कार्या, त्रीणि योजनलक्षाणि सप्तदश सहस्राणि अष्ट च पश्चपञ्चाशदधिकानि योजनशतानि परिक्षेपेण, उपपत्तिस्तु पूर्वराशेद्वे शते त्रिंशदधिके अपनीय कार्या, अथ चतुर्थादिमण्डलेष्वतिदेशमाह-- ' एवं खलु'
For P&Praise Cly
~942~