________________
आगम
(१८)
प्रत
सूत्रांक [१३५]
+
गाथा
दीप
अनुक्रम
[२६०
-२६२]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः)
वक्षस्कार [७],
मूलं [१३५] + गाथा
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
अवस्थितबाहामाह--'तया ण' मित्यादि, तदा सर्वाभ्यन्तरमण्डलचारकाले अन्धकारं कियदायामेन प्रज्ञप्तम् ?, गौतम ! अष्टसप्तति योजनसहस्राणि त्रीणि च त्रयस्त्रिंशदधिकानि योजनशतानि योजनत्रिभागं चैकं, अवस्थिततापक्षेत्रसंस्थित्यायाम इवायमपि बोध्यः, तेन मन्दरार्द्धसत्कपंचसहस्रयोजनान्यधिकानि मन्तव्यानि सूर्यप्रकाशाभावयति क्षेत्रे स्वत एवान्धकारप्रसरणात् कन्दरादौ तथा प्रत्यक्षदर्शनात्, सूत्रेऽविवक्षितान्यपि व्याख्यातो विशेषप्रतिपत्तिरिति दर्शितानि । अथ पश्चानुपूर्व्या तापक्षेत्रसंस्थितिं पृच्छति - 'जया ण'मित्यादि, यदा भगवन् ! सूर्यः सर्वत्राह्यमण्डलमुपसंक्रम्य चारं चरति तदा किंसंस्थान संस्थिता तापक्षेत्रसंस्थितिः प्रज्ञप्ता १, गौतम ! ऊर्ध्वमुख कलम्बुका पुष्प संस्थान संस्थिता प्रज्ञप्ता, | तदेव-अभ्यन्तरमण्डलगततापक्षेत्र संस्थितिसत्कमेव सर्वमवस्थितानवस्थितवाहादिकं नेतव्यं, नवरमिदं नानात्वं विशेषः यदन्धकार संस्थितेः पूर्व- सर्वाभ्यन्तरमंडलगततापक्षेत्रसंस्थितिप्रकरणे वर्णितं ६३२४५ इत्येवंरूपं प्रमाणं तत्तापक्षेत्रसंस्थितेः प्रमाणं नेतव्यं, द्वीपपरिधिदशभागसत्कभागद्वयप्रमाणत्वात्, यत्तापक्षेत्रसंस्थितेः पूर्ववर्णितम् ९४८६८४ इत्येवंरूपं प्रमाणं तदन्धकारसंस्थितेनेंतव्यं द्वीपपरिधिदश भागसत्कभागत्रयप्रमाणत्वात्, यदत्र तापक्षेत्रस्याल्पत्वं तमसश्वानस्पत्वं तत्र मंदलेश्याकत्वं हेतुरिति एवं सर्वाभ्यन्तरमण्डलेऽभ्यन्तरबाहाविष्कम्भे यत्तापक्षेत्रपरिमाणं ९४८६ 4 इत्येवंरूपं तदत्रान्धकारसंस्थितेर्ज्ञेयं, यच्च तत्रैव विष्कम्भेऽन्धकारसंस्थिते: ६३२४ इत्येवं तापक्षेत्रस्यात्र मन्तव्यं, ननु इदं सर्व बाह्यमंडलसत्कतापक्षेत्रप्ररूपणं, यदि तन्मंडलपरिधौ ३१८३१५ रूपे षष्टिभते लब्धा ५३०५ रूपा मुहूर्त्त -
For Pee & Personality
~918~
Bestiesesentere
॥४॥