________________
आगम
(१८)
प्रत
सूत्रांक
[१३३]
दीप
अनुक्रम
[२५८]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
वक्षस्कार [७],
मूलं [१३३]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
पूर्व्या सूर्यस्य मुहूर्त्तगत्याद्याह- 'जया ण' मित्यादि, यदा भगवन् ! सूर्यः सवबाह्यमण्डलमुपसङ्क्रम्य चारं चरति तदा एकैकेन मुहूर्त्तेन कियत् क्षेत्रं गच्छति ?, गौतम ! पञ्च पञ्च योजनसहस्राणि त्रीणि पञ्चोत्तराणि योजनशतानि पञ्चदश षष्टिभागान् योजनस्य ५३०५ ६ एकैकेन मुहर्त्तेन गच्छति, कथमिति चेत्, उच्यते-अस्मिन् मण्डले परिश्यपरिमाणं तिम्रो लक्षा अष्टादश सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि ३१८३१५, ततोऽस्य प्रागुक्तयुक्तिवशात् षष्ठ्या भक्ते लब्धं यथोक्तमत्र मण्डले मुहूर्त्तगति परिमाणमिति, अत्र दृष्टिपथप्राप्ततापरिमाणमाह- 'तदा' सर्वबाह्यमण्डल चारचरणकाले इहगतस्य मनुष्यस्येति प्राम्बत् एकत्रिंशता योजन सह सैरष्टभिश्चैकत्रिंशदधिकैर्योजनशतैस्त्रिंशता च पष्टिभागैर्योजनस्य ३१८३१ ३: सूर्यः शीघ्रं चक्षुःस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले सूर्ये चारं चरति दिवसो द्वादशमुहर्त्तप्रमाणो, दिवसस्यार्जेन यावन्मात्रं क्षेत्रं व्याप्यते तावति स्थित उदयमानः सूर्य उपलभ्यते, द्वादशानां च मुहूर्त्तानामद्धे षट्ट मुहूर्त्तास्ततो यदत्र मण्डले मुहूर्त्तगतिपरिमाणं पञ्चयोजन सहस्राणि त्रीणि शतानि पञ्चोत्तराणि पञ्चदश च षष्टिभागा योजनस्य ५३०५ ६५ तत् षडिर्गुण्यते, दिवसार्द्धगुणिताया एव मुहूर्त्तगतेर्दृष्टिपथप्राष्ठताकरणत्वात्, ततो यथोक्तमत्र मण्डले दृष्टिपथप्राततापरिमाणं भवति, यद्यप्युपान्त्य मण्डलदृष्टिपथप्राप्तता परिमाणात् पञ्चाशीतिर्योजनानि नव पष्टि| भागा योजनस्य एकस्य पष्टिभागस्य सत्काः पष्टिरेकषष्टिभागाः इत्येवंराशौ शोधिते इदमुपपद्यते एतच प्राग् भावितं तथापि प्रस्तुतमण्डलस्योत्तरायणगतमण्डलानामवधिभूतत्वेनान्यमण्डलकरणनिरपेक्षतया करणान्तरमकारि, इदं च
For P&Pase City
~894~