________________
आगम
(१८)
प्रत
सूत्रांक
[१३१]
दीप
अनुक्रम [२५६]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [७],
मूलं [१३१]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बुद्वीपशाविचन्द्री
या वृत्तिः
॥४३७॥
शद्योजनसहस्राणि त्रीणि च योजनशतानि त्रिंशदधिकानि अवाधया सर्वबाह्यं सूर्यमण्डलं प्रज्ञतं, तत्र मन्दरात् पञ्चचत्वारिंशद्योजनसहस्राणि जगती ततो लवणे त्रीणि शतानि त्रिंशदधिकानि, तथा द्वितीयमण्डलपृच्छा-'जंबुद्दीवे' त्ति प्रश्नसूत्रे बाह्यानन्तरं पश्चानुपूर्व्या द्वितीयमित्यर्थः, उत्तरसूत्रे पञ्चचत्वारिंशद्योजनसहस्राणि तथैव जगती ततस्त्रिंशदधिकत्रिशतयोजनातिक्रमे यत्सूरमण्डलमुक्तं तस्मादन्तरमाने विम्बविष्कम्भमाने च शोधिते जातं यथोकं मानमिति, अथ तृतीयं- 'जंबूदीवे'सि व्यक्तं, नवरं उत्तरसूत्रे पञ्चचत्वारिंशद्योजनसहस्राणि त्रीणि च शतानि चतुर्विंशत्यधिकानि पविंशतिं च एकषष्टिभागान् योजनस्येति, अत्र पूर्वमण्डलाङ्कात् सान्तरमण्डलविष्कम्भयोजने २ १ शोधिते जातं यथोक्तं मानं, पूर्वमण्डलाङ्को ध्रुवाङ्कस्तत्र सविम्बविष्कम्भोऽन्तरविष्कम्भः शोध्यस्तत उपपद्यते यथोक्तं मानं, उक्ताव| शिष्टेषु मण्डलेष्वतिदेशमाह - ' एवं खलु' इत्यादि, एवमुक्तरीत्या मण्डलत्रयदर्शितयेत्यर्थः एतेनोपायेन प्रत्यहोरात्रमेकैकमण्डलमोचनरूपेण प्रविशन् जम्बूद्वीपमिति गम्यं, सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं सङ्क्रामन् २ द्वे द्वे योजने अष्टचत्वारिंशतं चैकषष्टिभागान योजनस्य एकैकस्मिन मण्डले अवाधावृद्धिं निवर्द्धयन् २ इदं समवायाङ्गवृत्त्यनुसारेणोक्तं यथा वृद्धेरभावो निवृद्धिः निशब्दस्याभावार्थत्वात् निवरा कन्येत्यादिवत् तां कुर्वन्, निवृद्धयन् २ इदं स्थानाङ्कवृत्यनुसारि, सूर्यप्रज्ञप्तिवृत्यादौ तु निषेष्टयन् २ इत्युक्तमस्ति, अत्र सर्वत्रापि हापयन् २ इत्यर्थः, सर्वाभ्यन्तरमण्डलमुपसङ्गम्य चारं चरतीति गतमबाधाद्वारम् । अथ मण्डलायामादिवृद्धिहानिद्वारम्
For P&Praise Cinly
~877~
১৩৩১
७वक्षस्कारे मेरुमण्डलाबाधा सू. १३१
॥४३७॥