________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [६], ---
--------- मूलं [१२५] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
[१२५]
गाथा:
रप्रवहाः, अन्यथा कुण्डप्रभवाणामपि वर्षधरनितम्बस्वकुण्डप्रभवत्वेन वर्षधरप्रभवा इति वाच्यं स्यात्, कियत्यः कुण्डप्रभवा-वर्षधरनितम्बवर्तिकुण्डनिर्गताः प्रज्ञप्ता:?, गौतम ! जम्बूद्वीपे द्वीपे चतुर्दश महानद्यो वर्षधरहदप्रभवा भरतगङ्गा-17 दयः प्रतिक्षेत्रं द्विद्विभावात् , कुण्डप्रभवाः षट्सप्ततिर्महानद्यः, तत्र शीताया उदीच्येष्वष्टसु विजयेषु शीतोदाया याम्येप्वष्टसु विजयेषु च एकैकभावेन षोडश गङ्गाः षोडश सिन्धवश्च तथा शीताया याम्येषष्टसु विजयेषु शीतोदाया उदीच्येविष्टसु विजयेषु चैकैकभावेन षोडश रक्ता रक्तावत्यश्च, एवं चतुःषष्टिः द्वादश च प्रागुक्का अन्तर्नयः सर्वमीलने षट्स
तिरिति कुण्डप्रभवानां तु शीताशीतोदापरिवारभूतत्वेनासम्भवदपि महानदीत्वं स्वस्वविजयगतचतुर्दशसहस्रनदी-18 18 परिवारसम्पदुपेतत्वेन भाव्यं, एवमेव सपूर्वापरेण चतुईशषट्सप्ततिरूपसङ्ख्यामीलनेन जम्बूद्वीपे नवतिर्महानद्यो भवन्ती त्या8 ख्यातमिति। अधैतासां चतुर्दशमहानदीना नदीपरिवारसयां समुद्रप्रवेशदिशं चाह-जंबुद्दी' इत्यादि व्यक्तं, नवरं
यद् भरतैरावतयोयुगपद्महणं तत्समानक्षेत्रत्वात् , भरते गङ्गा पूर्वलवणसमुद्रं सिन्धुः पश्चिमलवणसमुद्रं प्रविशति, 18 ऐरावते च रक्ता पूर्वसमुद्रं रक्तावत्यपरसमुद्रं च, तथा 'जंबुद्दीवेत्ति निगदसिद्धं, नवरं हैमवतहरण्यवतयोः समानयुमिक्षेत्रत्वेन सहोक्तिः, हैमवते रोहिता पूर्व लवणं रोहितांशा पश्चिमं हिरण्यवते सुवर्णकूला पूर्व लवणं रूप्यकूला ||81 पश्चिम एवमेव पूर्वापरमीलनेन जम्बूद्वीपे हैमवतहरण्यवतयोः क्षेत्रयोर्द्वादशसहस्रोत्तरं नदीशतसहस्रं भवत्येवमाख्यातं, अत्र शतसहस्रशब्दसाहचर्यादग्रसङ्ख्यायां द्वादशोत्तराणीत्यत्र सहस्राणि प्रतीयन्ते, अन्यथा (द्वादशाधिकरवे अर्ध-)
दीप अनुक्रम [२४६-२४९]
809080500000000000
~862~