________________
आगम
(१८)
प्रत
सूत्रांक
[१२५ ]
गाथा:
दीप
अनुक्रम [२४६
-२४९]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
वक्षस्कार [६],
मूलं [ १२५] + गाथा:
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
लवक्षस्कारेषु षोडशसु १६ प्रत्येकं चतुष्टयभावात् ६४ गजदन्ताकृतिवक्षस्कारेषु गन्धमादन सौमनसयोः सप्त १४ मा व्यवद्विद्युत्प्रभयोः नव १८ इति उभयमीलने यथोक्तसङ्ख्या, त्रीणि पडुत्तराणि वैताव्यकूटशतानि, तत्र भरतैरावतयोविजयानां च वैताढ्येषु चतुस्त्रिंशति प्रत्येकं नवसम्भवादुक्तसङ्ख्यानयनं, वृत्तवैताढ्येषु च कूटाभावः अत एव वैताव्यसूत्रे न दीर्घपदोपादानं विशेषणस्य व्यवच्छेदकत्वात् अत्र च व्यवच्छेद्यस्याभावादिति, मेरौ नव, तानि च नन्दनवनगतानि ग्राह्याणि न भद्रशाल वनगतानि दिगूहस्तिकूटानि तेषां भूमिप्रतिष्ठितत्वेन स्वतन्त्रकूटत्वादिति, सङ्ग्रहणिगाथायां 'पवयकूडा ये'त्यत्र चोऽनुकसमुच्चये तेन चतुखिंशद् ऋषभकूटानि तथा अष्टौ जम्बूवनगतानि तावन्त्येव शा| ल्मलीवनगतानि भद्रशालवनगतानि च सर्वसङ्ख्ययाऽष्टपञ्चाशत्सङ्ख्याकानि ग्राह्याणि, ननु तर्हि एतद्गाथाविवरणसूत्रे 'चत्तारि सत्तसठ्ठा कूडसया' इत्येवंरूपे सङ्ख्याविरोधः, उच्यते, एषां गिर्यनाधारकत्वेन स्वतन्त्रगिरित्वान्न कूटेषु गणना, | अयमेवाशय ऋषभकूट सङ्ख्या सूत्रपृथक्करणेन सूत्रकृता स्वयमेव दर्शयिष्यते, यच्च प्राक् ऋषभकूटाधिकारे 'कहि णं भंते ! जंबुद्दी उसभकूडे णामं पचए पण्णत्ते' इति सूत्रं, तच्छिलोच्चयमात्रतापरं व्याख्येयमिति सर्वं सम्यकू, अथ तीर्थानि - 'जंबुद्दीवे' इत्यादि, प्रश्नसूत्रे तीर्थानि चक्रिणां स्वस्वक्षेत्र सीमासुरसाधनार्थं महाजलावतारणस्थानानि, उत्तरसूत्रे भरते त्रीणि तीर्थानि प्रज्ञप्तानि तद्यथा-मागधं पूर्वस्यां गङ्गासङ्गमे समुद्रस्य वरदाम दक्षिणस्यां प्रभासं पश्चिमायां सिंधुसंगमे समुद्रस्य एवमैरावतसूत्रमपि भावनीयं, नवरं नद्यौ चात्र रक्कारक्तवत्यौ तयोः समुद्रसङ्गमे मागधप्रभासे
For P&Palle Cnly
~860~