________________
आगम
(१८)
प्रत
सूत्रांक
[११७]
दीप
अनुक्रम
[२२९]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [५],
मूलं [११७]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
दुःखभागभूदिति दिव्यनिद्रया निद्राणां करोतीत्यर्थः, दत्त्वा च तीर्थंकरस्य मेरुं नेतव्यस्य भगवतः प्रतिरूपकं - जिनसदृशं रूपं विकुर्वन्ति, अस्मासु मेरुं गतेषु जन्ममहन्यापृतिव्यग्रेषु आसन्नदुष्टदेवतया कुतूहलादिनाऽपहृतनिद्रा सती | मा इयं तथा भवत्विति भगवद्रूपान्निर्विशेषं रूपं विकुर्वतीत्यर्थः, विकुर्व्य च तीर्थकरमातुः पार्श्वे स्थापयति स्थापयित्वा च पञ्च शक्रान् विकुर्वति, आत्मना पञ्चरूपो भवतीत्यर्थः, विकुर्व्य च तेषां पञ्चानां मध्ये एकः शक्रो भगवन्तं तीर्थकरं परमशुचिना सरसगोशीर्षचन्दनलिप्तेन धूपवासितेनेति शेषः करतलयो:-ऊर्ध्वाधोब्यवस्थितयोः पुढं-सम्पुढं | शुक्तिका सम्पुटमिवेत्यर्थः तेन गृह्णाति एकः शक्रः पृष्ठत आतपत्रं छत्र धरति द्वौ शकावुभयोः पार्श्वयोश्चामरोत्क्षेपं कुरुतः एकः शक्रः पुरतो वज्रपाणिः सन् प्रकर्षति - निर्गमयति, आत्मानमिति शेषः, अग्रतः प्रवर्त्तत इत्यर्थः, अत्र च सत्यपि सामानिकादिदेव परिवारे यदिन्द्रस्य स्वयमेव पञ्चरूपविकुर्वणं तत् त्रिजगद्गुरोः परिपूर्णसेवा लिप्युत्वेनेति । अथ यथा शक्रो विवक्षितस्थानमामोति तथा आह— 'तए णं से सके इत्यादि, ततः स शक्रो देवेन्द्रो देवराजा अन्यैबहुभिर्भवनपतिधानमन्तरज्योतिष्कवैमा निकैर्देवैर्देवीभिश्च सार्द्ध सम्परिवृतः सर्व यावत्करणात् 'सवज्जुईए' इत्यादि पदसङ्ग्रहः पूर्वोक्तो ज्ञेयः, तयोत्कृष्टया यावत्करणात् 'तुरिआए' इत्यादिग्रहः व्यतिव्रजन् २ यत्रैव मन्दरपर्वतो यत्रैव च पण्डकवनं यत्रैव चाभिषेकशिला यत्रैव चाभिषेकसिंहासनं तत्रैवोपागच्छति उपागत्य च सिंहासन
For P&Praise Cnly
~812~