________________
आगम
(१८)
प्रत
सूत्रांक
[८६-८७]
दीप
अनुक्रम
[१४१
-१४२]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्ति:)
वक्षस्कार [४],
मूलं [८६-८७]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
जीवा-उत्तरतो नीलबद्धर्षधरासन्ना कुरुचरमप्रदेशश्रेणिः पूर्वापरायता द्विधा पूर्वपश्चिमभागाभ्यां वक्षस्कारपर्वतं स्पृष्टा, एतदेव विवृणोति, तद्यथा- पौरस्त्यया कोट्या पौरस्त्यं वक्षस्कारपर्वतं माल्यवन्तं स्पृष्टा पाश्चात्यया पाश्चात्यं गन्धमा| दननामानं वक्षस्कारपर्वतं स्पृष्टा, त्रिपञ्चाशद्योजनसहस्राणि आयामेन, तत्कथमिति १, उच्यते, मेरोः पूर्वस्यां दिशि | भद्रशालवनमायामतो द्वाविंशतियोंजन सहस्राणि एवं पश्चिमायामपि, उभयमीलने जातं चतुश्चत्वारिंशत्सहस्राणि मेरु| विष्कम्भे दशसहस्रयोजनात्मके प्रक्षिप्ते जातं चतुष्पञ्चाशद्द्योजनसहस्राणि, एकैकस्य वक्षस्कार गिरेर्वर्षधरसमीपे पृथुत्वं पश्च योजनशतानि ततो द्वयोर्वक्षस्कारगिर्योः पृथुत्वपरिमाणं योजनसहस्रं तत्पूर्वराशेरपनीयते, जातः पूर्वराशिखि| पश्चाशद्योजन सहस्राणीति । अथैतासां धनुःपृष्ठमाह--'तीसे णं धणुं दाहिणेण 'मित्यादि, तासां धनुःपृष्ठं दक्षिणतो मेर्वासन्न इत्यर्थः, षष्टियोजन सहस्राणि चत्वारि च योजनशतानि अष्टादशानि-अष्टादशाधिकानि द्वादश चैकोनविंशति| भागान् योजनस्य परिक्षेपेण, तथाहि-- एकैकवक्षस्कार गिरेरायामस्त्रिंशद्योजन सहस्राणि द्वे च नवोत्तरे षट् च कलाः, ततो द्वयोर्वक्षस्कारयोमलने यथोक्तं मानमिति, अथैतासां स्वरूपप्ररूपणायाह -- ' उत्तरकुराए णमित्यादि, उत्तरकु रूणां भदन्त ! कीदृश आकारभावप्रत्यवतारः - स्वरूपाविर्भावः प्रज्ञप्तः ?, गौतम ! बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, एवमुक्तन्यायेन पूर्वं भरतप्रकरणे वर्णिता या एव सुषमसुषमायाः आधारकस्य वक्तव्यता सैव निरवशेषा नेतव्या,
Find&P Cy
~634~
warnyard