________________
आगम
(१८)
प्रत
सूत्रांक
[८४]
दीप
अनुक्रम
[१३९]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [४],
मूलं [८४]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्मूद्वीपशान्तिचन्द्रीया वृतिः
॥२०८॥
'तस्स ण' मित्यादि तस्य तिर्गिछिद्रहस्य दाक्षिणात्येन तोरणेन हरिनाम्नी हरिसलिलाऽपरपर्याया महानदी प्रव्यूढा | सती सप्ठयोजनसहस्राणि चत्वारि च योजनशतानि एकविंशानि - एकविंशत्यधिकानि एकं च एकोनविंशतिभागं योजनस्य दक्षिणाभिमुखी पर्वतेन गत्वा इत्यादि प्राग्वंत्, गिरिगन्तव्योपपत्तिस्तु षोडशसहस्राष्टशतद्वाचत्वारिंशद्योजनप्रमाणान्निषधव्यासाद् द्विसहस्रयोजनप्रमाणे इदव्यासेऽपनीते शेषेऽर्द्धकृते भवतीति । निगमयन्नतिदेशसूत्रमाह--- 'एव' मित्यादि, 'एव' मित्युक्तप्रकारेण यैव हरिकान्ताया वक्तव्यता सैव हरितोऽपि महानद्या नेतव्या, जिव्हिकाया हरिकुण्डस्य हरिद्वीपस्य भवनस्य च तदेव प्रमाणं हरिकान्ताप्रकरणो कमवसेयं, अर्थोऽपि हरिद्वीपनाम्नो वाच्यः, अत्र याव | त्पदवाच्यं साक्षालिखितं च सर्वं हरिकान्ताप्रकरण इव ज्ञेयं ॥ अथास्माद्या उत्तरेण नदी प्रवहति तामाह - ' तस्स णं तिर्गिछिद्दह' इत्यादि, व्यक्तं गिरिगन्तव्यं तु हरिनद्या इवावसेयं, अथास्या जिव्हिकास्वरूपमाह - 'सीओओ' इत्यादि, उत्तानार्थं, नवरमायामेन चत्वारि योजनानि, हरिन्नदीजिव्हिकाद्विगुणत्वात् पञ्चाशद् योजनानि विष्कम्भेन हरिन्न| दीप्रवहतो द्विगुणस्य सीतोदाप्रवहस्य मातव्यत्वात्, एवं बाहल्यमपि पूर्वजिव्हिकातो द्विगुणमवसेयम्, अथ कुण्डस्वरूपमाह---'सीओओ णं महाणई जहिं' इत्यादि, 'एत्थ ण'मित्यादि, अत्र कुण्डस्य योजनसङ्ख्या हरिकुण्डतो द्वैगुण्येनोपपादनीया । अथ सीतोदाद्वीपस्वरूपमाह -- ' तस्स ण'मित्यादि, अत्र शीतोदाद्वीपः आयामविष्कम्भाभ्यां चतुःषष्टियोजनानि पूर्वनदी द्वीप तो द्विगुणायामविष्कम्भत्वात् व्यधिके द्वे शते परिक्षेपेण, अत्र सूत्रेऽनुकमपि करणवशात्
Fur Frue&rinae Cy
~619~
४वक्षस्कारे सनदीकतिगिछिद्रहवर्णन
सू. ८४
॥३०८ ॥