________________
आगम
(१८)
प्रत
सूत्रांक
[ ७५ ]
दीप
अनुक्रम
[१३०]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
वक्षस्कार [४],
मूलं [ ७५ ]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
द्विशेषाधिकानि किंचिदधिकानीत्यर्थः, मध्ये एकं योजनसहस्रं एकं षडशीत्यधिकं योजनशतं किंचिद्विशेषोनं किंचिदूनमित्यर्थः, अयं भावः - एकं सहस्रमेकं शतं पञ्चाशीतियजनानि पूर्णानि शेषं च क्रोशत्रिकं धनुषामष्टशतानि त्रयो| विंशत्यधिकानि इति किंचित्पडशीतितमं योजनं विवक्षितमिति तथा उपरि सप्त योजनशतानि एकनवत्यधिकानि किंचिदूनानि परिक्षेपेण, अत्राप्ययं भावः सप्त शतानि नवतियोंजनानि पूर्णानि शेषं क्रोशद्विकं धनुषां सप्त शतानि पंचविंशत्यधिकानीति किंचिद्विशेषोनं एकनवतितमं योजनं विवक्षितं, परिक्षेपेणेति सर्वत्र ग्राह्यं, शेषं स्पष्टं ॥ अथात्र | पद्मवरवेदिकाद्याह- 'से ण'मित्यादि प्रकटं, अत्र यदस्ति तत्कथनायोपक्रमते - 'सिद्धाययण' मित्यादि, निगदसिद्धं, नवरं प्रथमयावत्पदेन वैताढ्यगत सिद्धायतनकूटस्येवात्र वर्णको ग्राह्यः, द्वितीयेन तद्गतसिद्धायतनादिवर्णक इति ॥ अथात्रैव क्षुद्रहिमवद्गिरिकूटवक्तव्यमाह - 'कहि ण' मित्यादि, क्व भदन्त ! क्षुद्रहिमवति वर्षधरपर्वते क्षुद्रहिमवत्कूटं नाम कूटं प्रज्ञतम्', 'गौतमेत्यादि उत्तरसूत्रं प्राग्वत्, नवरं 'एवं जो वेवे' त्यादि अतिदेशसूत्रे 'एव' मित्युक्तप्रकारेण य एवं सिद्धायतनकूटस्योच्चत्वविष्कम्भाभ्यां युक्तः परिक्षेपः उच्चत्व विष्कम्भपरिक्षेपः, मध्यपदलोपी समासः, स एव इहापि हिमवत्कृटे बोध्य इत्यर्थः, इदं च वचनं उपलक्षणभूतं तेन पद्मवरवेदिकादिवर्णनं समभूमिभागवर्णनं च ज्ञेयं, किय| स्पर्यन्तमित्याह -- यावद्वहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्रान्तरे महानेकः प्रासादावतंसकः प्रज्ञतः, प्रासादानां - आयामाद्विगुणोच्छ्रित वास्तुविशेषाणामवतंसक इव-शेखरक इव प्रासादावतंसकः प्रधानप्रासाद इत्यर्थः, स च
Fucrustee City
~596 ~