________________
आगम
(१८)
प्रत
सूत्रांक
[63]
दीप
अनुक्रम [१२८ ]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [४],
मूलं [७३]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
Jan Elke mitin
| हसे ४८००००० रित्यस्य पद्मराशेर्भागहरणात् यथोको राशिरुपपद्यत इति पूर्वापरपद्मक्षेत्रयोजनमीलनेन च पूर्वोक्तं सर्वानं सम्पद्यते, परिक्षेपाश्चात्र वृत्ताकारेण बोज्याः क्षेत्रस्य बहुत्वात् सम्भवन्तीति, पंतयश्चात्र द्रहक्षेत्रस्यायतचतुरस्रत्वेन आयामविस्तारयोर्विषमत्वेऽपि पञ्चशतयोजनमर्यादयैव कर्त्तव्या, ततः परं व्याससत्कपञ्चशतयोजनानां पर्यवसितत्वात्, शोभमानाश्चोतरीत्यैव भवन्तीति । किश्श - इमानि पद्मानि शाश्वतानि पार्थिवपरिणामरूपत्वात्, वानस्प तान्यपि बहूनि तत्रोत्पद्यन्ते, यदाहुः श्रीउमाखातिवाचकपादाः खोपज्ञजम्बूद्वीपसमासप्रकरणे - " नीलोत्पलपुण्डरीकशतपत्रसौगन्धिकादिपुष्पाञ्चित" इति, अन्यथा श्रीवज्रखामिपादाः श्रीदेवतासमर्पितानुपमेयमहापद्मानयनेन पुरिका| पुर्य्यां कथं जिनप्रवचनप्रभावनामकार्षुरिति । एतानि च न शान्धतानि, तत्रत्य श्रीदेवतादिभिरवच्चीयमानत्वात्, यदूचुः, | श्रीहेमचन्द्रसूरयः खोपज्ञपरिशिष्टपर्वणि— “तदा च देवपूजार्थमवचित्यैकमम्बुजम् । श्रीदेच्या देवतागारं यान्त्या वज्रर्षिरक्ष्यत ॥ १ ॥” इति, नन्वयमनन्तरोकोऽर्थः कथं प्रत्येतव्यः १, उच्यते, इदमेव द्वितीयपरिक्षेपसूत्रं प्रत्यायकं, | तथाहि — अत्रैकादशाधिकचतुस्त्रिंशत्सहस्रकमलानि उक्तदिशि मायवितव्यानि तानि च क्रोशमानानि एकपंक्त्या च तदाऽवकाशं लभेत यदा द्वितीयपद्मपरिधिरेकादशाधिकचतुस्त्रिंशत्सहस्रकोशप्रमाणः स्यात् स च तदा स्याद् यदा मूलक्षेत्रायामन्यासी साधिकषर्विंशतिशतप्रमाणौ स्यातां, ती प्रस्तुते न स्तः, तेन यथासम्भवं पंक्तिभिर्द्वितीयपरिक्षेपपद्मजातिः पूरणीयेति तात्पर्ये, एवमन्यपरिक्षेपेष्वपि यथासम्भवं भावना कार्येति, अथ कथमयमर्थः सिद्धान्ततां प्रापित
Fur Prate&P Cy
~578~