________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३],
----- मूलं [७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
[७०]
दीप
लङ्कारस्य पूर्व त्यक्तत्वात् केशालङ्कारस्य च तित्यक्ष्यमाणत्वात् परिशेषात् वस्त्रमाल्यालङ्कारयोरवग्रहः, स्वयमेव पञ्चमुष्टिकं लोचं करोति कृत्वा च उपलक्षणात् सन्निहितदेवतयाऽपितं साधुलिङ्ग गृहीत्वा चेति गम्यं, ततः शक्रव-18 न्दितः सन् आदर्शगृहात् प्रतिनिष्कामति प्रतिनिष्क्रम्य च अन्तःपुरमध्यंमध्येन निर्गच्छति निर्गत्य च दशभी राज-18 सहस्रः सार्द्ध संपरिवृतो विनीताया राजधान्या मध्यंमध्येन निर्गच्छति निर्गत्य च मध्यदेशे-कोशलदेशस्य मध्ये सुखसुखेन विहरति । तदनु किं विधत्ते इत्याह-'विहरित्ता जेणेव अट्ठावए'इत्यादि, विहत्य च यत्रैवाष्टापदः पर्वतस्तत्रैवोपागच्छति, उपागत्य चाष्टापदं पर्वतं शनैः २ सुविहितगल्या 'दवदवस्स न गच्छिज्जा' इति वचनात् आरोहति आरुह्य च घनमेघसन्निकाश-सान्द्रजलदश्यामं पदव्यत्ययः प्राकृतत्वात् देवानां सन्निपातः-आगमनं रम्यत्वात् यत्र स तथा तं, पृथि-18 वीशिलापट्टकः-आसनविशेषस्तं प्रतिलेखयति, केवलित्वे सत्यपि व्यवहारप्रमाणीकरणार्थ दृष्ट्या निभालयति, प्रतिलिख्य च सिंहावलोकनन्यायेनात्रापि आरोहतीति बोध्यं, संलिख्यते-कृशीक्रियते शरीरकषायाद्यनयेति सँलेखना-तपोविशेपलक्षणा तस्या जोषणा-सेवना तया जुष्टः-सेवितो झूषितो वा-क्षपितः यः स तथा, प्रत्याख्याते भक्तपाने येन स
तथा, कान्तस्य परनिपातः प्राकृतत्वात् , 'पादोपगतः पादो-वृक्षस्य भूगतो मूलभागस्तस्येवाप्रकम्पतयोपगतम्-अवस्थानं | का यस्य स तथा, काल-मरणमनषकांक्षन्-अवाञ्छन् , उपलक्षणाज्जीवितमप्यवाञ्छन्, अरक्तद्विष्टत्वाद्विहरति, अथ स|
भरतो यस्मिन् पर्याये यावन्तं कालमतिबाह्य निर्ववृते तथाह-'तए ण'मित्यादि, ततः स भरतः केवली सप्तसप्तति।
अनुक्रम [१२५]
~562~