SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ----- मूलं [७०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [७०] | निषीदति निषध चादर्शगृहे आस्मानं प्रेक्षमाणः २-तत्र प्रतिविम्बितं सर्वाङ्गस्वरूपं पश्यन् पश्यस्तिष्ठति-आस्ते, अत्र || च 'व्याख्यातो विशेषप्रतिपत्ति'रित्ययं सम्प्रदायो बोध्या, तद्यथा-'तत्र च प्रेक्षमाणस्य, स्वं वपुरतेशितुः । अङ्गुल्या एकतमस्या, निपपातांगुलीयकम् ॥ १॥ तदंगुल्या गलितमध्यंगुलीयं महीपतिः । नाज्ञासीद्वहिणो बहभारादहमिवैककम् ॥ २॥ वपुः पश्यन् क्रमेणेक्षांचके तां चत्रयनूमिकाम् । अंगुली गलितज्योत्स्नां, दिवा शशिकलामिव ॥३॥ अहो विशोभा फिमसावंगुलीति विचिन्तयन् । ददर्श पतितं भूमावंगुलीयं नरेश्वरः॥४॥ किमन्याम्यपि विशोभाग्यलान्याभरणैर्विना । इति मोक्तुं स आरेभे,भूषणान्यपराण्यपि ॥५॥' इति. एवं प्रवृत्तस्य तस्य किमजनीत्याह-तए ण-18 | मित्यादि, ततो-वपुर्व्यस्तभूषणमोचनानन्तरं तस्य भरतस्य राज्ञः शुभेन परिणामेन “अन्तःक्लिन्नस्य विष्ठाचैर्मलैः18 स्रोतोभवैर्वहिः । चिन्त्यमानं किमप्यस्य, शरीरस्य न शोभनम् ॥१॥ इदं शरीरं कर्पूरकस्तूरीप्रभृतीन्यपि । दूषयत्येव पाथोदपयांस्यूपरभूरिव ॥२॥ यत्प्रातः संस्कृतं धान्यं, तन्मध्याहे विनश्यति । तदीयरसनिष्पने, काये का नाम सारता ॥३॥"इति शरीरासारत्वभावनारूपया जीवपरिणत्या प्रशस्तैरध्यवसानैः-उक्तस्वरूपैर्मन:परिणामैः लेश्याभिःशुक्लादिद्रव्योपहितजीवपरिणतिरूपाभिर्विशुश्यन्तीभिः-उत्तरोत्तरविशुद्धिमापद्यमानाभिरापद्यमानाभिर्निरावरणवपु रूप्यविषयकमीहापोहमार्गणागवेषणं कुर्वतस्तदाबरणीयानां-केवलज्ञानदर्शननिबन्धकानां चतुर्णा घातिकर्मणां क्षयेण-18 18 सर्वथा जीवप्रदेशेभ्यः तदीयपुद्गलपरिशाटनेन प्राग्व्याख्यातानुत्तरादिविशेषणविशिष्टं केवलज्ञानदर्शनमुत्पन्न मिति, दीप अनुक्रम [१२५] ~ 560~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy