________________
आगम
(१८)
ཙྪཱ + བྷུལླཱ ཡྻ
守
[८१-८३]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३],
मूलं [५७] + गाथा
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥२३६॥
श्वरको धाटिभिक्षाचरः परिव्राजको-मस्करी ततश्चरकसहितः परिव्राजकश्चरकपरिव्राजकः, प्रथमा द्वितीयार्थे तेन चरकपरिव्राजकमिव प्राकृतशैल्या अकारमश्लेषादभिलीयमानं २ - अशुचिसंसर्गशङ्कया आत्मानं संवृण्वन्तं २, आभीक्ष्ण्ये चात्र द्विर्वचनं, एवमग्रेऽपि भाव्यं, अथास्य क्रियाविशेषैर्जात्यत्वं लक्षयति- खुरप्रधानश्चरणाः खुरचरणास्तेषां चचपुटाःआघातविशेषास्तैर्धरणितलमभिन्नदभिन्नद्, ननु भूतलविलिखनं सामान्यतः पुंस इवाश्वस्यापलक्षणमिति, न, एतस्य लक्षणत्वेन शालिहोत्रे प्रतिपादनाद्, यतः “खुरैः खनेद्यः पृथिवीमश्यो लोकोत्तरः स्मृत" इति, अश्ववारप्रयोगनर्त्तितो हि हयोऽप्रपादावुदस्यति, तत्रास्य शक्तिं विशेषणद्वारेण दर्शयति-द्वावपि च चरणौ यमकसमकं युगपत् मुखाद्विनिर्गम दिव- निस्सारयदिव, कोऽर्थः १ - इदमप्रपादादूर्ध्वं नयत्तथा मुखान्तिकं प्रापयति यथा जन उत्प्रेक्षते - इमौ मुखाद्विनिर्गमयति, पुनः क्रियान्तरदर्शनेनैतद्विशिनष्टि- शीघ्रतया - लाघवविशेषेण मृणालं - पद्मनाउं तस्य तन्तुः - सूत्राकारोऽवयवविशेषः स च उदकं च ते अपि निश्राय-अवलंब्य आस्तामन्यद् दुर्गादिकं प्रक्रामत्-सशरत्, अयमर्थ:यथा अभ्येषां सञ्चरिष्णूनां मृणालतंतूद के पादावष्टम्भके न भवतः तथा नास्येति सूत्रे चैकवचनमार्थत्वात्, तथा जातिः - मातृपक्षः कुलं - पितृपक्षः रूपं - सदाकारसंस्थानं तेषां प्रत्ययो विश्वासो येभ्यस्ते च ते प्रशस्ताः प्रदक्षिणावहत्वात् शुभस्थानस्थितत्वाच्च ये द्वादशावर्त्तास्ते यत्र तत्तथा, बहुमीहिलक्षणः कप्रत्ययः, विशुद्धानि - दोषामिश्रितानि लक्षणानि अश्वशास्त्रप्रसिद्धानि यस्य तत्तथा ततः पदद्वयस्य कर्मधारयः, द्वादशावर्त्ताश्च इमे वराहोक्ताः-"ये प्रमाण
Fur Prate&Pay
~ 475~
३वक्षस्कारे अश्वरबखझरने व.
५७
॥२३६॥
ww.jellyys