________________
आगम
(१८)
སྦྲ + ཊྛལླཱ ཡྻ
[८१-८३]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
वक्षस्कार [३],
मूलं [५७] + गाथा
मुनि दीपरत्नसागरेण संकलित ........ आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
नामुञ्चत्वमीलने सर्वसङ्ख्या पूर्वोक्ता अशीत्यंगुलरूपा, मकारः सर्वत्रालाक्षणिकः, यतु श्रेष्ठाश्वमानमाश्रित्य लौकिकपारासरग्रन्थे 'जघन्यमध्यश्रेष्ठानामश्वानामायतिर्भवेत् । अंगुलानां शतं हीनं विंशत्या दशभिस्त्रिभिः ॥ १ ॥ परिणाहोऽकुलानि स्यात्, सप्ततिः सप्तसप्ततिः । एकाशीतिः समासेन, त्रिविधं स्याद् यथाक्रमम् ॥ २ ॥ तथा षष्टिश्चतुःषष्टिरष्टषष्टिः समुच्छ्रयः । द्विपञ्चसप्तकयुता, विंशतिः स्यान्मुखायतिः ॥ ३ ॥ इत्यत्र सप्तनवत्यंगुलान्यायतिः एकाशीत्यंगुलानि परिणाहः अष्टषष्ट्यंगुठानि समुच्छ्रयः सप्तविंशत्यंगुलानि मुखायतिरित्युक्तमस्ति तदपरश्रेष्ठह्यानाश्रित्य न तु हयरलमाश्रित्य दृष्टश्चायं विशेषः पुरुषोत्सेधे सामुद्रिके उत्तमपुरुषाणामष्टोत्तरशतांगुलान्युत्सेधः उत्तमोत्तमानां तु विंशत्युत्तरशतांगुलानि, अनेनास्य प्रमाणोपेतस्वं सूचितं, सम्प्रत्यवयवेषु लक्षणोपेतत्वं सूचयति - मुकोलीनाम अध उपरि च सङ्कीर्णा मध्ये त्वीपद्विशाला कोष्ठिका तद्वत् संवृत्तं सम्यग्वर्तुलं वलितं-वलनस्वभावं न तु स्तब्धं मध्यं यस्य तत्तथा परिणाहस्य मध्यपरिधिरूपस्यात्रैव चिन्त्यमानत्वादु चितेयमुपमा, ईपदंगुलं यावत् प्रणतं नन्तुमारब्धं अतिप्रणतस्योपवेष्टुर्दुःखावहत्वात् पृष्ठं पर्याणस्थानं यस्य तत्तथा आरोहक सुखावहपृष्ठ कमित्यर्थः, सम्यग् - अधोऽधः क्रमेण नतं पृष्ठं यस्य तत्तथा, सङ्गतं - देहप्रमाणोचितं पृष्ठं यस्य तत्तथा, सुजातं जन्मदोषरहितं पृष्ठं यस्य तत्तथा, प्रशस्तंशालिहोत्रलक्षणानुसारि पृष्ठं यस्य तत्तथा, किं बहुना ?, विशिष्टपृष्ठं- प्रधानपृष्ठमितियावत् उक्तं पृष्ठे पर्याणस्थानवर्णनं, अथ तत्रैवावशिष्टभागं विशिनष्टि-एणी-हरिणी तस्या जानुवदुन्नतं उभयपार्श्वयोर्विस्तृतं च चरमभागे स्तब्धं
Fur Fate &POC
~472~