________________
आगम
(१८)
प्रत
सूत्रांक
[ ५६ ]
दीप
अनुक्रम [८]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [3],
मूलं [ ५६ ]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
प्रस्तूयमानं भरतस्य चरितमाह — 'तए ण' मित्यादि, ततस्तेषामुत्पातचिन्तनानन्तरं स भरतो राजा चक्ररत्नादेशितमागों यावत् समुद्ररवभूतामिव गुहां कुर्वन् २ तमिस्रागुहातः औत्तराहेण द्वारेण निरेति- निर्याति शशीव मेघान्ध| कार निवहात् । 'तए ण' मित्यादि, ततो गुहातो निर्गमानन्तरं ते आपातकिराता भरतस्य राज्ञः अग्रानीकं सैन्याप्रभागं 'एज्यमाणंति इयत्, आगच्छत् पश्यति दृष्ट्वा च आसुरुता इत्यादि पदपंचकं प्राग्वत् अन्योऽन्यं शब्दयन्ति शब्दयित्वा चैवमवादिपुरिति, किमवादिपुरित्याह- 'तए ण' मित्यादि, एष देवानुप्रियाः ! कश्चिदज्ञातनामकोऽप्रार्थित प्रार्थकादिविशेषणविशिष्टो वर्त्तते योऽस्माकं विषयस्य – देशस्योपरि वीर्येणात्मशक्त्या 'हव्वं'ति शीघ्रमागच्छति, तत्तस्मातथा णमिति - इमं भरतराजानमित्यर्थः 'घत्तामो' त्ति क्षिपामो दिशो दिशि विकीर्णसैन्यं कुर्म्म इत्यर्थः, यथा एषोऽस्माकं विषयस्योपरि वीर्येण नो शीघ्रमागच्छेत्, सूत्रे सप्तम्यर्थे वर्त्तमानानिर्देशः प्राकृतत्वात् एतस्मिन् समये किं जात| मित्याह -' इतिकट्टु' इत्यादि, इति - अनन्तरोदितं कृत्वा - विचिन्त्यान्योऽन्यस्यान्तिके एतमर्थं प्रतिशृण्वन्ति - ओमिति प्रतिपद्यन्ते, प्रतिश्रुत्य च सन्नद्धबद्धेत्यादिपदानि प्राग्वत् यत्रैव भरतस्य राज्ञोऽग्रानीकं तत्रैवोपागच्छन्ति, उपागत्य च भरतस्य राज्ञोऽग्रानीकेन सार्धं संप्रलग्नाश्चाप्यभूवन्, योद्धुमिति शेषः, युद्धाय प्रवृत्ता इत्यर्थः अथ ते किं कुर्वन्ती| त्याह- 'तए णं ते आवाडचिलाया' इत्यादि, ततो युद्धप्रवृत्त्यनन्तरं ते आपातकिराता भरतस्य राज्ञोऽग्रानीकं हताः केचन प्राणत्याजनेन मथिताः केचन मानमथनेन घातिताश्च केचन प्रहारदानेन प्रवरवीराः - प्रधानयोधा यत्र तत्तथा
Fur Fraternae Cy
~ 468~