________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३],
----- मूलं [१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
[५४]
निष्पन्नयोजनमपान्तराले मुक्त्वा कृतानीत्यर्थः, अवगाहनापेक्षयोत्सेधांगुलनिष्पन्नपञ्चधनुःशतमानविष्कम्भाणि, वृत्तत्वाद् विष्कम्भग्रहणेनायामोऽपि तावानेवावगन्तव्यः, उत्सेधांगुलप्रमीयमाणावगाहनाकेन चक्रिणा हस्तात्तत्काकणीरलेन क्रियमाणत्वान्मण्डलानां, अयं च मण्डलावगाहः स्वस्वप्रकाश्ययोजनमध्ये एव गण्यते, अन्यथा ४९ मण्डलानामवगाहे पिण्डीक्रियमाणे गुहाभित्त्योरायाम उक्त प्रमाणाधिकप्रमाणः प्रसज्येतेति, अत एव च योजनोद्योतकराणि-योजनमात्रक्षेत्रप्रकाशकानि, यावन्मण्डलान्तराल तावन्मण्डलप्रकाश्यं गुहाभित्तिक्षेत्रमित्यर्थः, चक्रस्य नेमिः-परिधिस्तत्संस्थानानि वृत्ता| नीत्यर्थः तथा चन्द्रमण्डलस्य प्रतिनिकाशानि-भास्वरत्वेन सदृशानि, एकोनपञ्चाशतं मण्डलानि-वृत्तहिरण्यरेखारू| पाणि, काकणीरत्नस्य सुवर्णमयत्वात् , आलिखन् २-विन्यस्यन् २ अनुप्रविशति गुहामिति प्रकरणाद् ज्ञेयं, वीप्साव
चनमाभीक्ष्ण्यद्योतनाथ, मण्डलालिखनक्रमश्चार्य-गुहायां प्रविशन् भरतः पाश्चात्यपान्धजनप्रकाशकरणाय दक्षिणद्वारे | IS पूर्वदिकपाटे प्रथम योजनं मुक्त्वा प्रधर्म मण्डलमालिखति, ततो गोमूत्रिकान्यायेनोत्तरतः पश्चिमदिकपाटतोडके
तृतीययोजनादौ द्वितीयमण्डलमालिखति, ततस्तेनैव न्यायेन पूर्वदिकपाटतोडुके चतुर्थयोजनादौ तृतीय, ततः पश्चिम-19 18 दिग्भित्तौ पश्चमयोजनादौ चतुर्थ ततः पूर्वदिग्भित्तौ षष्ठयोजनादौ पञ्चमं ततः पश्चिमदिग्भित्तौ सप्तमयोजनादौ षष्ठं |
ततः पूर्वदिग्भित्तौ अष्टमयोजनादौ सप्तमं एवं तावद् वाच्यं यावदष्टचत्वारिंशत्तममुत्तरदिग्द्वारसत्कपश्चिमदिकपाटे प्रथमयोजनादी एकोनपञ्चाशत्तमं चोत्तरदिग्द्वारसत्कपूर्वदिक्कपाटे द्वितीययोजनादावालिखति, एवमेकस्यां भित्ती पश्च
TAGSasasasasaca0e0%acapa
दीप अनुक्रम [७८]
~ 458~