________________
आगम
(१८)
प्रत
सूत्रांक
[ ५४ ]
दीप
अनुक्रम [७८]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [3],
मूलं [ ५४ ]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
Jan Ebenitie
नुष्यादिप्रतिपक्षोत्थं भयमिह ज्ञेयं, अन्यथाऽश्लोकादिभयानि महतामेव भवेयुरिति, अथैतद् गृहीत्वा नृपतिर्यच्चकार तदाह-'तं मणिन्ति तन्मणिरलं गृहीत्वा स नरपतिर्भरतो हस्तिरत्वस्य दाक्षिणात्ये कुम्भे निक्षिपति - निवनाति, 'कुंभीए' इत्यत्र स्त्रीत्वं प्राकृतत्वात्, 'तए ण' मित्यादि, ततः स भरताधिपो नरेन्द्रो हारावस्तृतेत्यादिविशेषणकदम्बकं प्राग्वत् मणिरत्नकृतोद्योतश्चक्ररलदेशितमार्गों यावत् समुद्ररयभूतामिव गुहामिति गम्यं कुर्वन् २ यत्रैव तमिस्रा| गुहाया दाक्षिणात्यं द्वारं तत्रैवोपागच्छति, उपागत्य च तमिस्रागुहा दाक्षिणात्येन द्वारेणात्येति प्रविशति, शशीव मे| घान्धकारनिवहं । प्रवेशानन्तरं यत्कृत्यं तदाह — 'तए ण' मित्यादि, ततः स भरतो राजा काकणीरलं परामृशतीत्युत्तरेण सम्बन्धः, किंविशिष्टमित्याह चत्वारि चतसृषु दिक्षु द्वे तूर्ध्वमधश्चेत्येवं षट्सयाङ्कानि तलानि यत्र तत्तथा, तानि चात्र मध्यखण्डरूपाणि, यैर्भूमावविषमतया तिष्ठन्तीति, द्वादश अध उपरि तिर्यक् चतसृष्वपि दिक्षु प्रत्येकं चत| सृणामश्रीणां भावात् अभ्रयः-कोटयो यत्र तत्तथा, कर्णिका:- कोणाः यत्र अश्रित्रयं मिलति तेषां चाध उपरि प्रत्येकं चतुर्णां सद्भावादष्टकर्णिकं, अधिकरणिः-सुवर्णकारोपकरणं तद्वत् संस्थितं संस्थानं यस्य तत्तथा तत्सदृशाकारं समचतुरस्रत्वात्, आकृतिस्वरूपं निरूप्यास्य तौल्यमानमाह – अष्टसुवर्णा मानमस्येत्यष्टसौवर्णिकं, तत्र सुवर्णमानमिदं चत्वारि मधुरतृणफलान्येकः श्वेतसर्षपः षोडश श्वेतसर्षपा एकं धान्यमाषफलं द्वे धान्यमापफले एका गुञ्जा पञ्च गुञ्जा एकः कर्ममाषकः पोडश कर्मभाषकाः एक सुवर्ण' इति, एतादृशैरष्टभिः सुवर्णैः काकणीरलं निष्पद्यते इति,
Fur Fate &PO
~ 454 ~
sesesenes