________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३],
---- मूलं [१२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति:
eee
प्रत सूत्रांक
[१२]
३ मिन इत्यज्ञातार्धे कप्रत्ययः, ये च प्रभूता-बहवः आकरा:-स्वर्णाद्युत्पत्तिभुवस्तेषां पतयः मण्डलपतयो देशकार्यनि
युक्ताः पत्तनपतयश्च, ते गृहीत्वा प्राभृतानि-उपायनानि आभरणानि-अङ्गपरिधेयानि भूषणानि-उपाङ्गपरिधेयानि रत्नानि च वस्त्राणि च महा_णि च-बहुमूल्यानि अन्यच्च यद्वरिष्ठं-प्रधानं वस्तु हस्तिरथादिकं राजाह-राजप्राभृतयोग्यं यच्च एटव्यं-अभिलपणीयं एतत्सर्व पूर्वोक्त सेनापतेरुपनयन्ति-उपढोकयन्ति मस्तककृताञ्जलिपुटाः, ततस्ते किं कृतवन्त इत्याह-'पुणरवि'इत्यादि, ते-तत्रत्यस्वामिनः प्राभृतोपनयनोत्तरकाले प्रकृताअलिपरित्यागानिवर्तनावसरे पुनरपि मस्तकेऽञ्जलिं कृत्वा प्रणता-नयत्वमुपागताः यूयमस्माकमत्र स्वामिनः प्राकृतत्वात् स्वार्थे कप्रत्ययस्तेन देव-18 तामिव शरणागताः स्मो वयं युष्माकं विषयवासिन इति विजयसूचकं वचो जल्पन्तः सेनापतिना यथार्ह-यथोचित्येन 8 स्थापिता:-नगराधाधिपत्यादिपूर्वकार्येषु नियोजिताः पूजिता वस्त्रादिभिः विसर्जिताः-स्वस्थानगमनायानुज्ञाताः निवृत्ताः-प्रत्यावृत्ताः सन्तः स्वकानि निजानि नगराणि पत्तनानि चानुप्रविष्टाः। विसर्जनानन्तरं सेनापतिर्यञ्चकार तदाह'ताहे सेणावई' इत्यादि, तस्मिन् काले सेनापतिः सविनयोऽन्तर्धतस्वामिभक्तिको गृहीत्वा प्राभूतानि आभरणानि भूषणानि रत्नानि च पुनरपि तां सिन्धुनामधेयां महानदीमुत्तीर्णः अणहशब्दोऽक्षतपर्यायो देश्यस्तेनाणह-अक्षतं क्वचि-19 दण्यखण्डितं शासन-आज्ञा बलं च यस्य स तथा, तथैव यथा २ स्वयं साधयामास तथा २ भरतस्य राज्ञो निवेदयति २ त्वा प्राभृतानि अर्पयित्वा च अत्र स्थित इति गम्यं, अन्यथा क्त्वान्तपदेन सह सङ्गतिर्न स्यात् , ततः प्रभुणा सत्का
दीप
अनुक्रम [७६]
~ 444~