________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३],
----- मूलं [१०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [५०]
नन्दीश्वरे कुण्डले वा राजधान्यः, यथा वाऽस्या एव देव्या असङ्ख्येयतमे द्वीपे राजधानी सिन्ध्वावर्तनकूटे च प्रासादावतंसक इति, एवं सिन्धुद्वीपे सिन्धुदेवीभवनसद्भावेऽपि अत एव सूत्रबलादत्रापि तदस्तीति ज्ञायते, तथा च सति । 'सिन्धूए देवीए भवणस्स अदूरसामंते' इत्यादिकं 'खंधावारनिवेसं करेइ' इत्यन्तं वक्ष्यमाणसूत्रमप्युपपद्यतेऽन्यथा | तदपि विघटतेति । तदनु भरतः किं कृतवानित्याह-'तए णमित्यादि, सुबोधं 'जाव सिंधूए'इत्यादि, अत्र याब-18
करणात् वर्द्धकिरनशब्दापनपौषधशालाविधापनादि सर्व ग्राह्यं, तेन पौषधशालायां सिन्धुदेव्याः साधनायेति शेषः। अष्टमभक्तं प्रगृह्णाति प्रगृह्य च पौषधिक:-पूर्वव्याख्यातपौषधव्रतवान् अत एव ब्रह्मचारी 'जाव दब्भसंथारोवगए' इत्यादि यावदर्भसंस्तारकोपगतः, अत्र यावत्करणात् उन्मुक्तमणिसुवर्ण इत्यादि सर्व पूर्वोक्तं पाहा, अष्टमभक्तिक:-18 कृताष्टमतपाः सिन्धुदेवी मनसि कुर्वन्-ध्यायंस्तिष्ठति । 'तए ण'मित्यादि, ततस्तस्य भरतस्य राज्ञोऽष्टमभक्के परिणमति-परिपूर्णप्राये जायमाने सिन्ध्वा देव्या आसनं चलति, ततः सा सिन्धुदेवी आसनं चलितं पश्यति दृष्ट्वा अवधि प्रयुनक्ति प्रयुज्य च भरतं राजानं अवधिना आभोगयति-उपयुके आभोग्य च स्थितायास्तस्या इत्यध्याहार्य अय-18 मेतद्रूपः आध्यात्मिकश्चिन्तितः प्रार्थितो मनोगतः संकल्पः समुदपद्यत इत्थमेवान्वयसङ्गतिः स्यात् अन्यथा भिन्न-18 कर्तृकयोः क्रिययोः क्त्वाप्रत्ययप्रयोगानुपपत्तिः स्थात् , भिन्नकर्तृकता चैव-सिन्धुदेवी आभोगयित्री सबाल्पश्च समुत्पादकः, इयं च सिन्धुदेवी आसनकम्पनाहतोपयोगा सती स्मृतजातीया स्वत एवानुकूलाशया संजज्ञे, तेन न शरप्रमो
दीप अनुक्रम [७४]
~ 432~