________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३],
---- मूलं [४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
[४९]
दीप अनुक्रम [७]
एवंविधःप्रकाश:-तेजःप्रसरो यस्य स तं, बिम्बफलं-गोल्हकं सिलप्पवालं'ति अत्र अश्लीलशब्द इवे श्रियं लातीति ऋफिडादित्वाल्लत्वे श्लील एवंविधं यत्प्रवालं श्लीलप्रवाल-परिकम्मितविद्रुमःशिलाप्रवालं वा विद्रुमः उत्तिष्ठत्सूरः-उद्गच्छत्सूर्यः | स्तेषां सदृशं सर्व कानि-षडतुभवानि सुरभीणि कुसुमानि-अप्रथितपुष्पाणि माल्यदामानि च-प्रथितपुष्पाणि यत्र सतं, 18 उच्छ्रित:-ऊध्वीकृतः श्वेतध्वजो पत्र स तं, महामेघस्य यद्रसितं-गर्जितं तद्वद् गम्भीरः स्निग्धो घोषो यस्य स तं, शत्रुहदयक-18 म्पनं, प्रभाते च-अष्टमतपःपारणकदिनमुखे चतुर्घण्टमवरथ पौषधिक:-आसन्नपारितपौषधनतो नरपतिरारूढ इति सम्ब-18 न्धः,सश्रीकं नाम्ना पृथ्वीविजयलाभमिति विश्रुतं,अनारूढः पुरुषो भूविजयं लभते इति सान्यर्थनामकमित्यर्थः, कीदृशी नर-18 पतिरित्याह-लोकविश्रुतयशाः,अहत-क्वचिदप्यवयवेऽखण्डितं सर्वत्रास्खलितप्रचारंवारथमित्यर्थः रथारोहानन्तरं भरतः किं चक्रे इत्याह--'तए ण'मित्यादि, ततः स भरतो राजा चतुर्घण्टमश्वरथमारूढः सन् शेष तथैवेति,कियत्पर्यन्तमित्याह'जाव दाहिणाभिमुहे' इत्यादि, शेष सूत्र मागधतीर्थगमानुसारेण ज्ञेयं, अथोतं यावदक्षिणाभिमुखो वरदामतीर्थेन वरदामनाम्नाऽवतरणमार्गेण लवणसमुद्रमवगाहते, 'सेसं तहेचति वचनात् 'हयगयरहपवरजोहकलिआए सझिं संपरि-12 बुडे महया भडचडगरपहगरवंदपरिखित्ते चकरयणदेसिअमग्गो अणेगरायवरसहस्साणुभायमग्गे महया उकिट्ठसीहणायबोलकलकलरवेणं पक्खुभिअमहासमुद्दरवभूअंपिय करेमाणे २' इत्यन्तं सूत्रं हश्य, किंबरं लवणसमुद्रमवगाहते। इत्याह-यावत्तस्य रथवरस्य कूपरावाद्रौं भवतः, अत्र यावच्छब्दो न संग्राह्यपदसंग्राहकः किन्तु जलावगाहप्रमाण
Sanile
~ 428~