________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [3], ----..........-----
---- मूलं [४९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
[४९]
बजयत इति, अत्र च एतत्सूत्रादशेषु तवणिज्जजालकलिअ'मिति पाठोऽशुद्ध एव सम्भाव्यते, आवश्यकचूणौ अस्यैव पाठस्य दर्शनात् , कंकटकाः-सन्नाहास्तेषां नियुक्ता-स्थापिता कल्पना-रचना यत्र स तथा तं, यथाशोभं तत्र सन्नाहाः स्थापिताः सन्तीति भावः, तथा प्रहरौरनुयात-भृतमित्यर्थः, एतदेव व्यकित आह-खेटकानि प्रतीतानि कणका|वाणविशेषाः धनषि मण्डलायाः-तरवारयः वरशक्तयः-त्रिशूलानि कुन्ता-भल्लाः तोमराच-बाणविशेषाः शराणां । | शतानि येषु तादृशा ये द्वात्रिंशत्तूणा-भखकास्तैः परिमण्डितं-समन्ततः शोभितं कनकरत्नचित्रं, तथा युक्तं तुरगैरित्यनेन सम्बयते, किंविशिष्टरित्याह-हलीमुखं रूढिगम्यमिति बलाको-बकः गजदन्तचन्द्रौ प्रतीतो मौक्तिक-मुक्ता| फलं तणसोल्लिअत्ति-मल्लिकापुष्पं कुन्द-श्वेतः पुष्पविशेषः कुटजपुष्पाणि-वरसिन्दुवाराणि निगुण्डीपुष्पाणि कन्दलानि-कन्दलवृक्षविशेषपुष्पाणि वरफेननिकरो हारो-मुक्ताकलापः काशा:-तृणविशेषास्तेषां प्रकाश:-औज्वल्यं | तद्वद्धवलैः अमरा-देवा मनांसि-चित्तानि पवनो-वायुस्तान वेगेन जयतीति अमरमनःपवनजयिनः, अत एव च-18 पलशी-अतिशीघ्र गामिनो-गमनशीला, ततः पदद्वयकर्मधारयः, तैश्चतुर्भि:-चतुःसङ्ख्याकैः तथा चामरैः कनकैश्च भूषितमहं येषां ते तथा तैः, चामरस्य स्त्रीत्वं आषेत्वात् , अथ पुना रथं विशिनष्टि-सच्छन सध्यजं सघण्टं सपताकमिति प्राग्वत्, भुकृत-सुष्टु निर्मितं सन्धिकर्म-सन्धियोजनं यत्र स तं, सुसमाहितः-सम्यग्यथोचितस्थाननिवेशितो यः समरकणक:-संग्रामवाद्यविशेषस्तस्य वीराणां वीररसोत्पादकत्वेन तुल्यो गम्भीरो घोषः-चीत्काररूपो ध्वनिर्यस्य
दीप अनुक्रम [७३]
~ 426~