________________
आगम
(१८)
ཟླ + ཙལླཱཡྻ
單
[६८-७२]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [३],
मूलं [ ४७ ] + गाथा:
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बूद्वीपशाविचन्द्रीया वृचिः
॥२०८॥
नभः ८ । अग्निः ९ पूषा १० थ वितथो ११, गृहक्षत १२ यमौ १३ ततः ॥ २ ॥ गन्धर्वो १४ भृङ्गराज १५ श्च, मृगः १६ पितृगण १७ स्तथा । दौवारिकोऽथ १८ सुग्रीव १९ पुष्पदन्तौ २० जलाधिपः २१ ॥ ३ ॥ असुरः २२ शोष २३ यक्ष्माणौ २४, रोगो २५७हि २६ मुख्य २७ एव च । भल्वाट २८ सोम २९ गिरय ३० स्तथा वाह्येऽदिति| ३१ दितिः ३२ ॥ ४ ॥ आपो ३३ ऽपवत्सा ३४ वीशेऽन्तः, सावित्रः ३५ सविता ३६ ऽग्निगौ । इन्द्र ३७ इन्द्रजयो३८ ऽन्यस्मिन् वायौ रुद्र ३९ व रुद्रराट् ४० ॥ ५ ॥ मध्ये ब्रह्मा ४१ ऽस्य चत्वारो देवाः प्राच्यादिदिग्गताः । अर्यमाख्यो ४२ विवस्वां ४३ श्च, मैत्रः ४४ पृथ्वीधरः ४५ क्रमात् ॥ ६ ॥ ईशकोणादितो वाह्ये, चरकी १ च विदा| रिका २ । पूतना ३ पापा ४ राक्षस्यो, हेतुकाद्याश्च निष्पदाः ॥ ७ ॥ चतुःषष्टिपदैर्वास्तु, मध्ये ब्रह्मा चतुष्पदः । अर्थमाद्याश्चतुर्भागा, द्विव्यंशा मध्यकोणगाः ॥ ८ ॥ बहिः कोणेष्वर्द्धभागाः, शेषा एकपदाः सुराः । एकाशीतिपदे ब्रह्मा, |नवार्याद्यास्तु षट्पदाः ॥ ९ ॥ द्विपदा मध्यकोणेऽष्टौ बाह्ये द्वात्रिंशदेकशः । शते ब्रह्माष्टसत्यांशो, बाह्यकोणेषु सार्द्धगी | ॥ १० ॥ अर्यमाद्यास्तु वस्त्रंशाः, शेषाः स्युः पूर्ववास्तुवत् । हेमरलाक्षताद्यैस्तु, वास्तुक्षेत्राकृतिं लिखेत् ॥ ११ ॥ अभ्यर्च्य | पुष्पगन्धाढ्यैर्बलिदध्याज्यमोदनम् । दद्यात् सुरेभ्यः सोङ्कारैर्नमोऽन्तैर्नामभिः पृथक् ॥ १२ ॥ वास्त्वारंभे प्रवेशे वा, श्रेयसे वास्तुपूजनम् । अकृते स्वामिनाशः स्यात् तस्मात्पूज्यो हितार्थिभिः ॥ १३ ॥ अत्र च वराहमिहिरोक्त एकाशीतिपदस्य स्थापनाविधिरयं - "एकाशीतिविभागे दश २ पूर्वोत्तरायता रेखाः । अंतस्त्रयोदश सुरा द्वात्रिंशद्वाह्य कोष्ठस्थाः
Fur Fate &POC
~ 419~
३वक्षस्कारे वास्तुनिये
सू. ४७
॥२०८||