________________
आगम
(१८)
प्रत
सूत्रांक
[२,३]
दीप
अनुक्रम
[२,३]
वक्षस्कार [१],
मूलं [२-३]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री या वृत्तिः
॥ १८ ॥
Jun Ebenitim
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
स्य-संसारस्य भयस्य वा भीतेरन्तहेतुत्वात् भवान्तो भयान्तो वा तस्यामन्त्रणं हे भवान्त ! भयान्त ! वां प्राग्वर्णितान्वर्थको जम्बूद्वीपो नाम द्वीपो वर्त्तत इति शेषः, अनेन जम्बूद्वीपस्य स्थानं पृष्टं १, तथा भदन्त ! किंप्रमाणो महानालयः- आश्रयो व्याप्यक्षेत्ररूपो यस्य स तथा कियत्प्रमाणमस्य महत्त्वमित्यर्थः, एतेन प्रमाणं पृष्टं २, अथ भदन्त ! किं संस्थानं यस्य स तथा एतेन संस्थानं पृष्टं ३, तथा भदन्त ! आकारभाव:- स्वरूपविशेषः कस्याकार भावस्य प्रत्यवतारो यस्य स किमाकारभावप्रत्यवतारः, बहुलग्रहणाद्वै यधिकरण्येऽपि समासः, यद्वा आकारश्च-स्वरूपं भावाश्च-जगतीवर्षवर्षधरायास्तद्गतपदार्था आकारभावास्तेषां प्रत्यवतार:- अवतरणं आविर्भाव इतियावत् आकार भावप्रत्यवतारः क:-- कीदृग् आकारभावप्रत्यवतारो यस्मिन् स तथा अनेन जम्बूद्वीपस्वरूपं तद्गतपदार्थाश्च पृष्टाः ४, इति इन्द्रभूतिना प्रश्नचतुष्टये कृते प्रतिवचःश्रवणसोत्साहताकरणार्थं जगत्प्रसिद्धगोत्राभिधानेन तमामन्त्रय निर्वचनचतुष्टयीं भगवानाह - | गौतमेत्यत्र दीर्घत्वमामन्त्रणप्रभवं तेन हे गौतम! 'अयं यत्र वयं वसामः अनेन समयक्षेत्र बहिर्वर्त्तिनामसङ्ख्येयानां जम्बूद्वीपानां व्यवच्छेदः, जम्बूद्वीपो नाम द्वीपः, कथम्भूत इत्याह- 'सर्वद्वीपानां धातकीखण्डादीनां 'सर्वसमुद्राणां ' लवणोदादीनां सर्वात्मना - सामस्त्येन अभ्यन्तरः सकलतिर्यग्लोकमध्यवर्त्ती सर्वाभ्यन्तर एव सर्वाभ्यन्तरकः स्वार्थे कमत्ययः, अभ्यन्तरमात्रं धातकीखण्डेऽपि पुष्करवरद्वीपापेक्षयाऽस्ति अतः सर्वशब्दोपादानमिति, अनेन जम्बूद्वीपस्यावस्थानमुक्तं १, तथा सर्वेभ्योऽपि - शेषद्वीपसमुद्रेभ्यः क्षुल्लको लघुः तथाहि सर्वे लवणादयः समुद्राः धातकीखण्डादयश्च
जम्बूद्वीपस्य स्थानादिः
Fur Ele&ae Cy
~39~
eseset setstestse
११ वक्षस्कारे जम्बूद्वीपस्थानादिः
॥ १८ ॥