________________
आगम
(१८)
प्रत
सूत्रांक
[४४]
दीप
अनुक्रम
[६१]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [3],
मूलं [४४]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
ब्रह्मचारी - मैथुनपरित्यागी, अनेन ब्रह्मचर्यपौषधमुक्तं, उन्मुक्तमणिसुवर्ण:- त्यक्तमणिस्वर्णमयाभरणः, व्यपगतानि मालावर्णकविलेपनानि यस्मात् स तथा, वर्णकं चन्दनं, अनेन पदद्वयेन शरीरसत्कारपौषधमुक्तं, निक्षिप्तं हस्ततो विमुक्तं | शस्त्रं-धुरिकादि मुसलं च येन स तथा अनेनेष्टदेवताचिन्तनरूपमेकं व्यापारं मुक्त्वाऽपरव्यापारत्यागरूपं पौषधमुक्तं, दर्भसंस्तारोपगत इति व्यक्तं, एकः आन्तरव्यक्तरागादिसहायवियोगात् अद्वितीयस्तथाविधपदात्यादिसहायविरहात्, अष्टमभक्तं प्रतिजाग्रत् २- पालयन् २ विहरति आस्ते इति । 'तए ण' मित्यादि, ततः स भरतो राजाऽष्टमभके परिणमति- पूर्यमाणे, परिपूर्णप्राये, इत्यर्थः, अत्र वर्तमान निर्देशः आसन्नातीतत्वात् 'सत्सामीप्ये' (श्रीसिद्ध० अ. ५ पा. ४ सू. १) इत्यनेन, पौषधशालातः प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य च यत्रैव बाह्योपस्थानशाला तत्रैवोपागच्छति, उपागत्य च कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा चैवमवादीत् क्षिप्रमेव भो देवानुप्रिया ! हयगजरथप्रबरयोधकलितां चतुरङ्गिनीं सेनां सन्नाहयत, चतस्रो घण्टाश्छत्रिकैकदिशि तत्सद्भावात् अवलम्बिता यत्र स तथा तं चकारः समुच्चये, स चाश्वरथमित्यत्र योजनीयः, अश्ववहनीयो रथोऽश्वरथो नियुक्तोभयपार्श्वतुरङ्गमो रथ इत्यर्थः, अनेनास्य सांग्रामिकरथत्वमाह, तं प्रतिकल्पयत सज्जीकुरुत इतिकृत्वा कथयित्वा आदिश्येत्यर्थः, मज्जनगृहमनुप्रविशतीति, 'अणुपविसित्ता' इत्यादि, अनुप्रविश्य च मज्जनगृहं समुक्ताजालाकुलाभिरामे इत्यादि, तथैव प्रागुक्तास्थानाधिकारगंमवदित्यर्थः, यावद् धवलमहामेघनिर्गतो यावन्मज्जनगृहात्प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य च हयगजरथप्रवरवाहन यावत्प
Fur Pate&P Cy
~ 398~