________________
आगम
(१८)
ཝཱ + ཚིལླཱ ཡྻ
[५६-६०]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
वक्षस्कार [३],
मूलं [४३] + गाथा:
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
१९२॥
च चक्ररलं प्रमार्जयति, यद्यपि न तादृशे रले रजः सम्भवस्तथापि भक्तजनस्य विनयप्रक्रियाज्ञापनार्थमयमुपन्यासः, | प्रमार्ण्य च दिव्ययोदकधारया अभ्युक्षति-सिञ्चति पयतीत्यर्थः अभ्युक्ष्य च सरसेन गोशीर्ष चन्दनेनानुलिम्पति, अनु| लिप्य च अप्रैः- अपरिभुक्तैरभिनवैर्वरैर्गन्धमाल्यैश्चार्चयति, एतदेव व्यक्त्या दर्शयति- पुष्पारोपणं माल्यारोपणं वर्णारोपणं चूर्णारोपणं वस्त्रारोपणं आभरणारोपणं करोति, कृत्वा च अच्छे :- अमलैः श्लक्ष्णैः- अतिप्रतलैः श्वेतैः- रजत| मयैरत एवं अच्छो रसो येषां ते अच्छरसाः, प्रत्यासन्नवस्तुप्रतिबिम्बाधारभूता इवातिनिर्मला इति भावः एतादृशैस्तण्डुलैः, अत्र पूर्वपदस्य दीर्घान्तता प्राकृतत्वात्, स्वस्तिकादयोऽष्टाष्टमङ्गलकानि - मङ्गस्यवस्तूनि आलिखति-विन्यस्यति, अत्र चाष्टाष्टेति वीप्सावचनात् प्रत्येकमष्टाविति ज्ञेयं, यद्वा अष्टेति सङ्ख्याशब्दः अष्टमङ्गलकानीति चाखण्डः संज्ञाशब्दः, अष्टानामपि मङ्गलकानां, अथोक्तानामेव मङ्गलकानां व्यक्तितो नामानि कथयन् पुनर्विध्यन्तरमाह - 'तद्यथा - स्वस्तिक' मित्यादि, व्याख्या तु प्राग्वत्, अत्र द्वितीयालोपः प्राकृतत्वात्, इमान्यष्टमङ्गलकानि आलिख्य| आकारकरणेन कृत्वा - अन्तर्वर्णकादिभरणेन पूर्णानि कृत्वेत्यर्थः, करोति उपचारं - उचितसेवामिति, तमेव व्यनक्ति - किन्ते इति तद्यथेत्यर्थे तेन विवक्षित उपचारः उपन्यस्त इत्यर्थः, पाटलं - पाटलपुष्पं मल्लिका विच किलपुष्पं, यलोके वेलि | इति प्रसिद्धं, चम्पकाशोकपुन्नागाः प्रतीताः चूतमञ्जरी - आम्रमञ्जरी बकुल:- केसरो यः स्त्रीमुखसीधुसिक्तो विकसति तत्पुष्पं, तिलको यः स्त्रीकटाक्षनिरीक्षितो विकसति तत्पुष्पं, कणवीरं कुन्दं च प्रतीते, कुजकं कूबो इति नाम्ना वृक्ष
Fu Prate & Pine Cy
~387~
३ वक्षस्कारे चक्रोत्पचितत्पूजो
त्सवाः सु. ४३
॥१९२॥